नन्वियं रसवत्ता प्रागेव माधुर्यप्रस्तावे दर्शिता । तत् किं पुनरुच्यत इति चेदाह—
वाच्यस्य काव्याधेयवस्तुनः सम्बधिनी सा ग्राम्यता असभ्यता योनिः प्रभवः अस्येति अग्राम्यतायोनिः । गमकत्वाद्वाच्यस्येति सापेक्षत्वेऽपि समस्यते । रसोऽर्थरसः । माधुर्ये शब्दार्थसाधारणे विभज्यमाने दर्शितः कामं सर्वोऽप्यलङ्कार १.६२ इत्यादिना । इह तु रसवदलङ्कारेऽष्टौ यथोक्ता रसास्तेष्वायत्ता प्रतिबद्धा रसवत्ता रसयोगिता अष्टरसा इति यावत् । गिरां काव्यानां सम्बन्धिनः स्मृता अभिमता इति ।
इति भावरससंग्रहश्लोकाविति ॥