कोकिलालापसुभगाः सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ ३५२ ॥

कोकिलानामालापैः सुभगा मनोहराः सुगन्धयो वनवायवो येषामिति सुगन्धिवनवायवः सुरभेर्वसन्तस्य वासरा दिवसा जनानामानन्दैः प्रीतिभिः सार्धं सह वृद्धिं यान्ति । वर्धन्त इति यावत् । अत्रोभयाधिकरणयोर्वर्धनक्रिययोः सहभावो दर्शितः । इयमभिन्न[क्रिया] । क्रियान्तरात्तु भिन्नक्रिया इत्यनयोर्भेदः प्रतिपत्तव्य इति ॥