कस्यात्र विशेषो विवक्षित इति विवृण्वन्नाह—

चन्द्रातपस्य बाहुल्यमुक्तमुत्कर्षवत्तथा ।
संशयातिशयादीनां व्यक्तौ किञ्चिन्निदर्श्यते ॥ २१४ ॥

चन्द्रस्य आतपो ज्योत्स्ना तस्य बाहुल्यं घनत्वम् तच्च उत्कर्षस्यास्तीति उत्कर्षमतिमात्रम् उक्तम् उद्भावितम् यतः तत्राभिसारिकाः कल्पितमल्लिकादिसिताकल्पाः । क्षीरसागरे तरन्त्यो 67a हंससंहत्य इव न विभाव्यन्ते । यथेयमतिशयोक्तिः तथा एवं संशये संशयस्य वा अतिशयो विशेषः । संशयातिशयोक्तिः एकदेशेन समुदायोपलक्षणादिः यस्याम् । निश्चयातिशयोक्त्यादीनां तासाम् व्यक्तौ विशेषावगमनिमित्तं व्यक्त्यै वा व्यक्त्यर्थं किञ्चित् कियन्मात्रं लक्ष्यं निदर्श्यते उदाह्रियत इति ॥