358

अभिन्नेति । वेला मर्यादा तीरं च । गम्भीरोऽतलस्पर्शोऽचलितचित्तवृत्तिश्च ॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘त्वन्मुखं पुण्डरीकं च द्वयोरप्यनयोर्भिदा ।
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥ ९५ ॥’

तदेतन्निगदेनैव व्याख्यातम् । सोऽयं प्रतीयमानसादृश्ययोरुभयोर्व्यतिरेकः ॥

अभिधीयमानसादृश्ययोः सदृशव्यतिरेको यथा—

‘त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी ।
भ्रमद्भ्रमरमम्भोजं लोलदृष्टि मुखं तु ते ॥ ९६ ॥’

अत्र मुखाम्भोजयोः 'फुल्ले सुरभिगन्धिनी' इति पदाभ्यामभिधीयमानसादृश्ययोः सदृशमेव भ्रमद्भ्रमरत्वं लोलदृष्टित्वं च भेदकमुपन्यस्तमिति सोऽयं शब्दोपात्तसादृश्ययोः सदृशव्यतिरेकः ॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘चन्द्रोऽयमम्बरोत्तंसो हसोऽयं तोयभूषणम् ।
नभो नक्षत्रमालीदमिदमुत्कुमुदं पयः ॥ ९७ ॥’

अत्र पूर्वार्धे चन्द्रहंसयोः प्रतीयमानसादृश्ययोरम्बरोत्तंसत्वतोयभूषणत्वे, उत्तरार्धे तु नभःपयसोर्नक्षत्रमालित्वोत्कुमुदत्वे सदृशे एव भेदके । सोऽयं प्रतीयमानसादृश्ययोः सदृशव्यतिरेकः ॥

अभिहितसादृश्ययोरसदृंशव्यतिरेको यथा—

‘शशाम वृष्टिर्मेघानामुत्सङ्गे तस्य भूभृतः ।
विरराम न रामस्य धारासन्ततिरश्रुणः ॥ ९८ ॥’

अत्र भूभृत इत्यनेन साक्षादुपात्तसादृश्ययो राममाल्यवतोर्योऽयमुत्सङ्गे समस्तोऽश्रुधारापातो यस्य मेघवृष्टेरभावस्तदिदमुभयोरसदृशमेव भेदकम् । सोऽयमभिधीयमानसादृश्ययोरसदृशव्यतिरेकः ॥