382
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ १५० ॥’

अस्यात्मविषयता व्यक्तैव योगिभिरुद्गीयते ॥

योगिभिरिति । निदिध्यासनबललब्धात्मनो ज्ञानस्य योगिमात्रे प्रसिद्ध- विषयत्वान्न ह्यस्मदादयस्तथा तं परिचिन्वन्ति यथा योगिन इत्यर्थः ॥

अनुमानलक्षणमाह—

लिङ्गाद्यल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते ।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च यत् ॥ ४७ ॥

लिङ्गादिति । यस्य येन सहाविनाभावलक्षणा व्याप्तिः संदिग्धसाध्यधर्मधर्मिरूपपक्षवृत्तितारूपा पक्षधर्मता च गृह्यते तस्मात्तस्य प्रतीतिरनुमानं यथा धूमाद्वह्नेः । स हि यथाविधे सिद्धस्तथाविधसंनिधानं सूचयति । तत्र यस्मात्प्रतीतिरुत्पद्यते तत् लिङ्गं चिह्नम् । व्याप्तिविशिष्टपक्षे धर्मतासंज्ञापकमित्यर्थः । इतरलिङ्गं ज्ञापकमस्यास्तीति कृत्वा । पूर्ववच्छेषवत्सामान्यतोदृष्टभेदात्रिविधमनुमानमग्रे ग्रन्थकृतैव व्याख्यातमिति न वितन्यते ॥

फलसामग्र्यभेदेन द्विधैतद्भिद्यते पृथक् ।
उदाहरणमेवैषां रूपव्यक्त्यै भविष्यति ॥ ४८ ॥

फलसामग्र्येति । यद्यपि ज्ञानमनुमानमित्युक्तं तथापि तस्य साधारणमेव क्वचिदनुपन्यासप्रधानं वाच्यम्, क्वचित्करणीभूतलिङ्गपरामर्शोपन्यासप्रधानमिति भवति यथोक्तो विशेषः । अनुमानशब्दो हि भावल्युडन्तः करणे ल्युडन्तो वा । आद्ये फलं द्वितीये सामग्र्यकरणमित्यर्थः । उपन्यासप्रधानता दुरूहेत्यत आह—उदाहरणमेवेति ॥

तेषु यत्र कारणं दृष्ट्वा कार्यमनुमीयते तत्पूर्ववद्यथा—

‘प्रविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त हताः पथिकगेहिन्यः ॥ १५१ ॥’

अत्र वर्षर्तोः कारणभूतात् कार्यभूतविरहिणीनां मरणमनुमीयते । तेनैतत्पूर्वं कारणमिहास्तीति पूर्ववदुच्यते ॥