385

अत्रोत्कण्ठालक्षणेन कार्येण वसन्तः कारणभूतोऽनुमीयत इति सामग्रीपक्षे इदं शेषवदित्युच्यते ॥

एत्तमिति । चूतमञ्जरीमलयपवनयोरग्रे समुत्कण्ठितमत्र चमत्कारास्पदम् । तथाहि । यथा प्रियस्य संनिधास्यतः संभावना लोकोत्तराभिमानप्रतिष्ठिता भवति न तथा संनिधानमिति सहृदयसाक्षिकोऽयमर्थः । एवं सामान्यतो दृष्टोदाहरणे बोध्यम् ॥

सामान्यतो दृष्टं यथा—

‘आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति ।
निदाघसंतप्तशिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥ १५७ ॥’

सेयं विद्युदिव दृष्टिं कामन्दक्यपि प्रथमत उपलभ्यमाना अविनाभावेन मालत्यागमनं गमयतीति सामग्रीपक्षे सामान्यतो दृष्टमेतत् ॥

यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया ।
उत्तमं मध्यमं चाथ जघन्यं चेति तत्रिधा ॥ ४९ ॥

यदाप्तवचनमिति । आप्तो यथार्थशब्दवक्ता । उत्तमं श्रुतिमूलम् । अत एव तस्यावश्यानुष्ठेयत्वाभिधानम् । मध्यममनादिलोकव्यवहारमूलं तदेव नावश्यानुष्ठेयमित्यनेन प्रकाशयिष्यते । उभयविधाबहिःफलसंवादि जघन्यम् ॥

तत्रोत्तमं द्विधा । विधिरूपं निषेधरूपं च । तयोर्विधिरूपं यथा—

‘दमं दानं दयां शिक्षेः स्तनयित्नुर्वदत्यसौ ।
ददध्व इति वाग्दैवी दयध्वं दत्त दाम्यत ॥ १५८ ॥’

अत्र चैषा दैवी वागनुवदति, यत् स्तनयित्नुर्ददध्व इति दयध्वं दत्त दाम्यतेति ‘तदेतत्त्रयं शिक्षेत दमं दानं दयाम्’ इति श्रुतेस्तदेतद्विधिरूपमाप्तवचनम् ॥

ददध्व इति । जलदध्वनितनानानादस्यानुकरणं तत्त्रितयव्याजेन जलधरो वदति । दयध्वं दत्त दाम्यतेति दैवी वागतो दमदानदयाः कर्तव्या इति विधिः पर्यवस्यति । बुद्धीन्द्रियनियमो दमः । दानदये प्रसिद्धे । मूलभूतां श्रुतिं दर्शयति—अत्र चैषेति ।