389 कटमिति येयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदिदमननुभूतविषयमुपमानं नैयायिकाः समुन्नयन्ति ॥

तदाभूतार्थविज्ञानजनकत्वेन हेतुना ।
नास्मादभिनयालेख्यमुद्राबिम्बादयः पृथक् ॥ ५१ ॥

तेष्वभिनयो यथा—

‘वइविवरणिग्गअदलो एरण्डो साहइ व्व तरुणाणम् ।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ ॥ १६६ ॥’
[वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः ।
अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति ॥]

अत्र पयोधरातिपरिणाहसूचकोत्तानप्रसारिताङ्गुलिहस्ताभिनयसंनिभैरण्डदलसंनिवेशनात्खयमुद्दिष्टेऽपि हालिकवधूस्तनपरिणाहे पूर्वानुभूतैवंविधस्तनपरिणाहसंबन्धप्रतिपत्तिस्तदिदमनुभूतार्थविषयमुपमानमेवाभिनय इत्युत्प्रेक्ष्यते ॥

वइविवरेति । ग्रामतरुणैरनन्यबद्धान्तःकरणैर्हालिकवधूस्तनाभोगो मुसलोल्लासनादौ वारंवारमनुभूतः स तुल्याकारधृतविवरप्रसूनैरण्डदलदर्शनादेव बुद्धिमारोहतीति सा बुद्धिर्मीमांसकोपमितिमध्यमध्यास्ते । कथमेरण्डदलसंनिवेशस्याभिनेयता । अनुकारो ह्यभिनयः । न चासौ तत्र संभवति । अत आह—हस्ताभिनयसंनिभेति । उत्तानप्रसारिताङ्गुलिहस्तसंनिवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाप्येरण्डदलविस्तारदर्शनात्तदन्तरितमेव जायत इत्यर्थः ॥

आलेख्यं यथा—

‘तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमधः ।
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥ १६७ ॥’