395 लक्ष्यते । ते चान्योपदेशादसंभवन्तो मन्मथमुपाध्यायं बोधयन्ति । तस्याग्रतः पार्श्वतो वानुपलभ्यमानस्य तन्मनस्यवस्थानं लक्ष्यते । सेयमाद्या प्रत्यक्षपूर्विका द्वितीया चार्थापत्तिपूर्विकार्थापत्तिर्भवति । इयमेव च मनोभूर्मनसि कामिनीनां संभवतीत्याप्तोपदेशादागमपूर्विकापि भवति ॥

इत्थमेवान्यथोपपत्तिमाशङ्क्याग्रे व्याचष्टे—अत्र विभ्रमिणीमिति । मत्व- र्थीयार्थमाह—प्रशंसायमिति ॥

असत्ता या पदार्थानामभावः सोऽभिधीयते ।
प्रागभावादिभेदेन स षड्विध इहेष्यते ॥ ५४ ॥

अभावं लक्षयति—असत्तेति । प्रागसत्त्वमुत्तरासत्त्वमित्यसत्तारूपेणैव प्रागभावादयो व्यवतिष्ठन्ते इतरेतराभावेऽप्यन्यरूपतयान्यस्याभाव इत्यसत्तात्मकत्वम् । प्रागभावादयः पूर्वोदिताश्चत्वारः । अत्यन्ताभावविशेषसामान्याभावाभ्यां सह षडभावाः । तयोर्विशेषमग्रे वक्ष्यामः ॥

तेषु प्रागभावो यथा—

‘सग्गं अपारिजाअं कोत्थुहलच्छीविरहिअं महुमहअस्स उरम् ।
सुमरामि महणपुरओ अमुद्धचन्दं च हरअडापब्भारम् ॥ १७७ ॥’
[स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः ।
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥]

सग्गं अपारिजाअमिति । निगदव्याख्यातः प्रागभावः । यथा अभावपूर्विकायामर्थापत्तौ करणं भेदानुमानमुक्तं तथात्रापि बोद्धव्यम् । पारिजातप्रागभावस्य प्रमेयरूपता व्यक्तैव । अभावोऽभावेनैव प्रतीयत इति । दर्शने तत्करणतया शब्दा नुपात्तोऽपि योग्यप्रमाणभावोऽवगम्यते । एवमुत्तरेष्वपि स्वयमूहनीयम् ॥

प्रध्वंसाभावो यथा—

‘धृतिरस्तमिता गतिश्च्युता विगतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ १७८ ॥’