326

सप्तमीवाच्यं भावलक्षणं यथा—

‘इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा ॥ २९ ॥’

अत्र सेनान्यः पलायमानगणानुशासनक्रिययान्धकारेः स्वप्रकाशनक्रिया लक्ष्यते यथा—‘गोषु दुह्यमानासु गतः’ इति । उपलक्षणं चैतत् । तेनान्यदपि भावलक्षणं शत्राद्यभिधेयमुपलक्ष्यते, यथात्रैव हसता तस्थे इति ॥

‘यस्य च भावेन भावलक्षणम् २।३।३७’ इत्यस्य सूत्रस्यार्थस्तु यस्य वस्तुनो भावेन क्रियया वस्त्वन्तरस्य भावः क्रिया लक्ष्यते तद्वचनात्सप्तमीत्यत आह—अत्र सेनान्य इति । हसता तस्थ इति लक्षणे शतृविधिः ‘लक्षणहेत्वोः क्रियायाः ३।२।१२६’ इति सूत्रणात् ॥

यथा वा—

‘यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ३० ॥’

इत्यनादरोपाधिके भावलक्षणे षष्ठ्यपि भवतीति ॥

अभावः प्रागभावादिभेदेनेह चतुर्विधः ।
घटाभावादिभेदात्तु तस्य संख्या न विद्यते ॥ १५ ॥

अभावसामान्यमभावप्रमाणनिरूपणप्रस्तावे ‘असत्तायाः पदार्थानाम्’ इत्यनेन वक्ष्यति । तेनात्र सामान्यलक्षणं न कृतवान् । स द्विविधस्तादात्म्यप्रतियोगिकः, संसर्गप्रतियोगिकश्च । द्वितीयस्त्रिधा प्राक्प्रध्वंसात्यन्ताभावभेदात् । तदाह—प्रागभावादिति । ननु न प्रागभावादिरेकोऽस्ति प्रतियोगिभेदेन भेदादित्यत आह—घटाभावादीति । अनेन रूपेण संख्या नास्त्येव । सामान्यं तु प्रागभावत्वादिकमाश्रित्य चातुर्विध्यम्, सोऽयं तुशब्दस्यार्थः ॥

तेषु प्रागभावो यथा—

‘अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् ॥ ३१ ॥’