328

अत्र प्रागभावाभावो यथा—

‘उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी ।
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ ३५ ॥’

अत्र वस्तुन उत्पादः प्रागभावाभाव उच्यते । तेनेह सहकारमञ्जरीमुद्भेदस्य पथिकनारीणां मरणे कारणत्वम् ॥

वस्तुन उत्पाद इति । भाव एवाभावाभावव्यवहारभूमिः । अभावव्यवहारविषयमात्रस्य च विभागः कृतोऽस्ति । प्रागभावादेः प्रध्वंसादिरूपतेति न न्यूनता विभागवाक्यस्याशङ्कनीया । तेनेति । भूतभव्यसमुच्चारणे भूतं भव्यायेति न्यायान्मञ्जरीणामुद्भेदस्य कारकतालाभोऽन्यथा वाक्यभेदे न किंचित्स्यात् । प्रागभावात्प्रागभावाभावभङ्ग्या च समस्तमञ्जरीसमुद्भेदेन वसन्तप्रौढिध्वननात्प्रकृतविप्रलम्भः पोषः ॥

प्रध्वंसाभावाभावो यथा—

‘पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः ।
स्वावासानुपघातनिर्वृतमनास्तत्कालमीलद्दृशे यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ ३६ ॥’

अत्र यथोक्तेन वपुषा योऽयमालिङ्गनेऽपि विधिनिवासनाभिपङ्कजानुपघातः, स इह वस्तुनोऽवस्थानमेव प्रध्वंसाभावाभाव उच्यते । स चेहाच्युतनाभिपङ्कजनिवासिनो विधेर्मनोनिर्वाणकारणं भवति ॥

पीनश्रोणीति । निभृतं दुर्लक्ष्यम् । अब्धिदुहितापि सर्वाङ्गीणमाश्लेषमभिलषति भगवानपीति कान्तेन कान्तमित्येताभ्यामभिव्यज्यते । उपलक्षणं चेदम् । तादात्म्यात्यन्ताभावाभावावप्युदाहरणीयौ । यथा—‘अवनिरुदकं तेजो वायुर्नभः शशिभास्करौ पुरुष इति यत्केचिद्भिन्ना वदन्ति तनूस्तव । तदनघ वचोवैचित्रीभिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् ॥’ अत्र भिन्न इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेत्येताभ्यां निषेधः । यथा च—‘न विद्यते यद्यपि सर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागु-