331

अत्राभिव्यक्तमेव व्यधिकरणत्वं कार्यकरणयोः प्रतीयत इत्ययं व्यधिकरणो नाम चित्रहेतुः ॥

एवं शब्दस्येति । प्रकारस्योपाधेरेव भेदो विवक्षितो न तु व्यक्तिमात्रस्येति भावः । सा बालेति । बाल्यादीनां सामानाधिकरण्य एव प्रागल्भ्यादिकं प्रति हेतुभावः प्रतीतः स इह गौणवृत्तिव्यपाश्रयतयोनिबध्यमानः कान्तिमावहति । तथाहि । अन्यत्प्रागल्भ्यं बालायाः सरलालोकितवाङ्मिश्रणाद्यसामर्थ्यलक्षणम्, अन्यच्च नायकप्रकाण्डे कथमेषां नियन्त्रणा स्यादित्यनध्यवसायलक्षणम् । तयोश्च तद्भावापत्तिरत्र व्यक्तैव । एवं कातरत्वादौ बोध्यम् । आदिग्रहणेन स्वहेतुकतया कार्यहेतुकतया चोपनिबध्यमानः संकलितो भवति ॥

हेतोरनन्तरं तद्विपरीतमहेतुं लक्षयन्नाह—

वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना ।
अकृतात्मीयकार्यः स्यादहेतुर्व्याहतस्तु यः ॥ १८ ॥

वस्तुन इति । हेतुतया प्रतीतोऽपि कार्यं न करोतीत्यभिधीयमानोऽहेतुः । स द्विविधः। स्वरूपेण कार्यव्यभिचारी, व्यापारविरोधेन वा । तथाभूतोऽपि च कार्यं न करोति । तत्र द्वयं निबन्धनं यद्गतं कार्यमुपजनयितव्यं तस्य वस्तुनः स्वभावो हेतुत्वाभिमतस्य शक्तिहानिर्वा । सापि द्विधा—आत्यन्तिकोऽभावः, प्रतिबन्धमात्रं वा । तत्र वस्तुस्वभावेन शक्तेरत्यन्तासत्त्वेन च द्विरूपस्वरूपाव्यभिचारीकृतात्मीकार्य इत्यनेनोक्तम्, वस्तुस्वभावेन शक्तिप्रतिबन्धेन च द्विप्रकारोऽपि च व्यापाराव्यभिचारी व्याहतः, इत्यनेन यद्यपि शक्तिरत्यन्तासत्त्वे हेतुभाव एव न भवति, तथापि गुणवृत्त्या हेतुभावाध्यासो बोद्धव्यः । सा च गुणवृत्तिः श्लेषोपहितान्यादृशी भवति ।

ननु चात्र चेष्टाया हेतुत्वं तृतीयया प्रतीयत इति सा हेतुत्वेन वक्तुमुचितेत्यत आह—

तत्र वस्तुस्वभावेनाकृतकार्यो यथा—

‘न विरचिता ललाटतटलास्यकरी भ्रुकुटि- र्न परुषहुंकृतेन मधुरस्मितमन्तरितम् ।