333
तत्कालप्रणते मुरद्विषि नवे दृष्ट्वा विलासं श्रियः कुर्वत्कोपकषायितेन मनसा मिथ्योत्प्लुतीः पातु वः ॥ ४६ ॥’

अत्र कोपकषायितेन मनसस्तस्योत्प्लुतिकरणसमर्थस्यापीश्वरकरग्रहणान्मिथ्यापदाभिधीयमानः प्रतीतो व्याघातस्ततोऽयं शक्तेर्हानिहेतुना व्याहतो नामा हेतुभेदः ॥

ईश्वरकरग्रहणाजदिति । ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथमन्यथा कुर्वदीत्युच्यतेऽत आह—मिथ्यापदेति ॥

इह कैश्चित्कारणमाला पृथगलंकार इत्युक्तम्, पूर्वस्योत्तरोत्तरं प्रति हेतुभावोक्तिस्तल्लक्षणम् । स द्विविधोऽभिधीयमानः प्रतीयमानो वा । उभयथापि नाहेतोर्व्यतिरिच्यत इत्याह—

यस्तु कारणमालेति हेतुसंतान उच्यते ।
पृथक्पृथगसामर्थ्यात्सोऽप्यहेतोर्न भिद्यते ॥ १९ ॥
एकोऽभिधीयमानेषु हेतुत्वेषु भवेत्तयोः ।
प्रतीयमानेष्वपरः कारणत्वेषु जायते ॥ २० ॥

यस्त्विति । यद्यपि प्रथमस्य प्रथमं हेतुभावो निवृत्त एव तथाप्युत्तरस्य प्रथममुखनिरीक्षणप्रवृत्तस्योत्तरं प्रति हेतुभावोऽभिधीयते । न हि स्वतन्त्रस्यैव हेतुभावे कारणमाला भासते ॥

तदिदमेकदेशद्वारा व्यञ्जयन्नाह—

तयोराद्यो यथा—

‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवाश्च संपदः ॥ ४७ ॥’

अत्र जितेन्द्रियत्वादीनामुत्तरोत्तरं प्रति हेतुभूतानामपि संपदुत्पत्तौ पूर्वपूर्वसव्यपेक्षायां समुदितानामेव कारणत्वं साधनादिपदैरभिधीयत इति सोऽयमभिधीयमानहेतुत्वकारणमालेत्यहेतुभेदः ॥