337

तदेवोभयलक्ष्यं यथा—

‘प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना मुवम् ॥ ५३ ॥’

अत्र चरणेन भूमिलेखनमिङ्गितं दृशोर्बाष्पाकुलत्वमाखारस्ताभ्यां गोत्रस्खलनोद्भवो मानिन्या मनस्तापः प्रतीयमान इतीङ्गिताकारलक्ष्यः सूक्ष्मभेदः ॥

विभज्यमानस्य सरूपतया सूक्ष्मानन्तरमुत्तरलक्षणमाह—

पदार्थानां तु यः सारस्तदुत्तरमिहोच्यते ।
स धर्मधर्मिरूपाभ्यां व्यतिरेकाच्च भिद्यते ॥ २३ ॥

पदार्थानां त्विति । सारः सर्वस्वायमानमुत्कर्षशालि वस्तु । पदार्थानामिति निर्धारणे षष्ठी । उत्तरमित्यन्वर्थ नाम । उत्कृष्टत्वमुदोऽर्थस्तत्रैव प्रकर्षस्तरपः । धर्मधर्मिरूपाभ्यामिति । व्यस्तसमस्ताभ्याम् । धर्म उपसर्जनं परप्रवणतया प्रतीयमानं वस्तु । अतथाभूतं तु धर्मिरूपम् । तदयमर्थः—प्रसिद्धवस्तुमध्ये कस्यचिदुत्कर्षवत्तया निर्धारणमुत्तरम् । तन्निधा । धर्मरूपं धर्मिरूपमुभयं च । आद्ययोः प्रत्येकं प्रकारद्वयम् । निर्धार्यमाणस्य शुद्धस्योपादानं, निर्धार्यानुत्तरव्यतिरेकिधर्मवत्तया वा । तदिदमाह—व्यतिरेकाच्चेति । अन्त्यस्यापि सामान्यविशेषरूपतया रूपत्वमिति षट्प्रकारमुत्तरमिति ॥

तेषु धर्मस्वरूपं यथा—

‘दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः ।
परोपकरणं कायादसारात्सारमुद्धरेत् ॥ ५४ ॥’

अत्र दानसत्यकीर्त्यादीनां वित्तादिवस्तुधर्माणां सारभूतानामुद्धारादयं धर्मरूपः सारः ॥

वित्तादिवस्तुधर्माणामिति । पञ्चम्या विभागः प्रत्यायितः । स च संश्लेषपूर्वक एवेति दानादीनामुपसर्जनताप्रतीतिः ॥