343

एषु विधिविषयो यथा—

‘त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ६६ ॥’

अत्र त्वयि जलमादातुमवनते सति तस्याः सरितः प्रवाहो मध्यनिविष्टेन्द्रनीलमणिर्मुक्तागुण इव गगनगतिप्रेक्षणीयो भविष्यतीति विधेः संभाव्यमानत्वादयं विधिविषयः संभवः ॥

अत्र त्वयि जलमिति । अप्रेक्षणीयस्य प्रेक्षणीयताभवनं विधिः ॥

निषेधविषयो यथा—

‘परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसंभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु ॥ ६७ ॥’

अत्रेदं भीष्मद्रोणयोरसंभाव्यमानं धनुर्वेदकौशलमस्मिन्वनेचरे न संभवतीति निषेधविषयः संभवः ॥

अस्मिन्वनेचर इति । परविवराभियोगे स्वविवररक्षारूपबहुतरकारणालोकान्नायं वनेचर इति निषेध एव संभाव्यते ॥

विधिनिषेधविषयो यथा—

‘उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
मुक्तापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ ६८ ॥

अत्र द्रुतमपि यियासोः कालक्षेपं तवोत्पश्यामीति विधिरूपः कथमपि न भवान् गन्तुमाशु व्यवस्येदिति निषेधरूपस्तदेवं विधिनिषेधयोरसंभाव्यमानत्वादयमुभयविषयः संभवः ॥ ३ ॥