345

पूर्वेषां संभवलक्षणमुपन्यस्य दूषयति—

द्रोणस्य संभवः खार्यां शते पञ्चाशतो यथा ।
तथान्ये संभवं प्राहुः सोऽनुमानान्न भिद्यते ॥ २६ ॥

भिद्यते तु यद्यनिश्चयः स्यात् ।

द्रोणस्येति । समुदायज्ञानादेकदेशज्ञानसंभव इति प्राच्यानामभिप्रायः । तथा च समुदायस्य समुदायिव्याप्तत्वादियं खारी द्रोणवती खारीत्वादिति सुलभम् । अनुमान एवास्यान्तर्भाव इत्यर्थः । कथं तर्हि तवापि संभवो भिद्यते सामग्री कार्यव्याप्तेति तत्राप्यनुमानमेव भविष्यतीत्यत आह—भिद्यत इति । नहि सामग्री दृष्टा यतः कार्यमनुमीयते, किंतु प्रभूतकारणदर्शनेन कार्यस्य ज्ञानमन्यदेवोत्पद्यत इति वक्तव्यम् । तथा चास्माकं दर्शने युक्तः पृथग्भावः ॥

यस्तूदाहरणविशेषं न प्रतिसंधत्ते तं बोधयितुमुदाहरणान्तरमाह—

यथा—

‘रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति ॥ ७१ ॥’

अत्र यथा खार्यां द्रोणः शते पञ्चाशदिति नियमो नैवं विप्रलम्भेऽलकानामकल्पनमनञ्जनमक्ष्णोर्मधुनो वा प्रत्यादेशः, सुहृदुदन्तलाभारम्भे वा नयनस्पन्दनानि, संभाव्यन्ते च प्रभूतकारणलोकादित्येषोऽपि विधिरूप एव संभव इति ॥

रूद्धापाङ्गेत्यादि । एवं विश्लेषदुःखेन कर्शिता यथाऽचेतनामप्यलकानां करुणोत्पन्नैव लक्ष्यते । तस्मादियं मा जलधरं द्राक्षीदिति निसर्गचपलस्यापाङ्गस्य प्रसरमवरुन्धन्ति । स्नेहपदेन नयनाञ्जनयोरनुपधिरनुबन्धो व्यज्यते । तेन मिथो मैत्रीयोग्यत्वम् । तेन तन्नयनादन्यत्र नाञ्जनं कान्तिमाप्नोतीति कोऽपि लावण्यप्रकर्षस्तथाभूतस्याप्यञ्जनस्य त्यागे यदेकतानतया नात्मानमपि प्रतिसंधातुं समर्थेति व्यनक्ति । एवं संपदान्तरेष्वपि स्वरसोऽनुसंधेयः । विप्रलम्भरूपकारणालोकाच्चोपरि-