346 नयनस्पन्दनं संभाव्यत इति संभवद्वयमत्रेति व्याख्यानेन स्फुटयति—अत्र यथा खार्यामिति ॥

परस्परोपकारकयोरेकस्य विशेषं दृष्ट्वापरस्य विशेषो ज्ञायत इति संभवसाम्यात्त- दनन्तरमन्योन्यलक्षणमाह—

अन्योन्यमुपकारो यस्तदन्योन्यं त्रिधा च तत् ।
वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम् ॥ २७ ॥
अन्योन्यचूलिकान्योभ्रान्तिरन्योन्यमेकता ।
अन्योन्यालंकृतेरन्तस्त्रयमेतदिहेष्यते ॥ २८ ॥

अन्योन्यमिति । विशेषार्पणमुपकारो न चेयं परिवृत्तिः स्थितस्यानपनयनात् दानप्रतिदानाभावाच्च । विशेषस्तु नानारूपस्तद्वाक्यार्थीभूतरसानुगामितया तत्र तत्रोन्नीयते । विभागं दर्शयति—त्रिधेति । अभिधीयमानं विशेषतः शब्देनोपात्तं सामान्यतः शब्देन विषयीकृतं विशेषतस्तु प्रतीयमानमेवेत्युभयात्मकम् । द्वाभ्यामन्यतोऽप्रतीयमानम् । अन्यान्यचूलिकादिलक्षणानि ग्रन्थकार एव स्फुटीकरिष्यति ॥

तेष्वभिधीयमानमन्योन्यमिह यथा—

‘कण्ठस्य तस्य स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥ ७२ ॥’

अत्रान्योन्यशोभाजननेत्यादिनोपकार्योपकारकभावस्य द्वयोरप्यभिहितत्वादभिधीयमानमिदमन्योन्यम् ॥

कण्ठस्येति । बन्धुरो नम्रः । निस्तलो वर्तुलः ॥

प्रतीयमानं यथा—

‘उद्धच्छो पिअइ जलं जह जह विरलङ्गुली चिरं पहिओ ।
पाआवलिआ वि तह तह धारं तणुअम्पि तणुएई ॥ ७३ ॥’
[उद्धर्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः ।
प्रपापालिकापि तथा तथा धारां तनुमपि तनूकरोति ॥]