451 पूर्वमेवाभिहितस्य च वनानिलशैत्यलक्षणेन कारणान्तरेणापह्नवः । न चैतयोः सादृश्यमस्ति सेयमनौपम्याभिधीयमानापह्नोतव्यवस्तुः । कार्यात्पूर्वं कारणोपन्यासेन पूर्वेत्युच्यते ।

राजेत्यादि । रोमोद्भेदेन रोमाञ्चेन राजकन्यानुरक्तं भूपकन्यानुरागिणं मां रक्षकास्तदवेक्षका अवगच्छेयुर्ज्ञायेरन् । आं स्मरणे, ज्ञातम् । अहो वनं शीतलानिलम् । अतो रोमाञ्चः । ‘आं ज्ञाननिश्चयस्मृत्योः’ इति मेदिनीकारः । अत्र पूर्वाभिधानेन पूर्वत्वमुभयोरसादृश्यादनौपम्यता ॥

सैवापूर्वा यथा—

‘आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
अक्षि मे पुष्परजसा वातोद्धूतेन पूरितम् ॥ ८३ ॥’

अत्रानन्दाश्रुप्रवृत्तमिति पूर्वं कार्यस्य, पश्चात् दृष्ट्वैव कन्यकामिति कारणस्योपन्यासः । शेषं पूर्ववत् । सेयमभिधीयमानापह्नोतव्यवस्तुरनौपम्यापह्नुतिरपूर्वेत्युच्यते ।

आनन्देत्यादि । कन्यकामेव दृष्ट्वा कथं ममानन्दाश्रु प्रवृत्तमस्ति । वातोद्भूतेन रजसा वायुचालितधूल्या ममाक्षि पूरितम् । शेषमपह्नवादिकं पूर्ववत्पूर्वापह्नुतिवत् । अभिधानमनौपम्यमपि पूर्ववदेव पूर्वं कारणानुपन्यासेनापूर्वत्वम् ॥

अनौपम्यैव प्रतीयमानापह्नोतव्यवस्तुः पूर्वा यथा—

‘उरपेल्लिअवइकारिल्लआइं उच्चेसि दइअवच्छलिए ।
कण्टअविलिहिअपीणुण्णअत्थणि उत्तम्मसु एत्ताहे ॥ ८४ ॥’
[उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले ।
कण्टकविलिखितपीनोन्नतस्तनि उत्ताम्येदानीम् ॥]

अत्र नैतस्याः स्तनयोरुपपतिना नखक्षतं कृतमपि तु कण्टकैरिति प्रतीयमानापह्नोतव्यं वस्तु प्रकाशते । पूर्ववदेव च पूर्वार्धे कारणस्योपन्यासः, पश्चिमार्घे तु कार्योपदेशो दृश्यते । सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुः पूर्वा नाम—‘अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनम्’ इति लक्षणयोगाज्जायते ।