उर इत्यादि । ‘उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले । कण्टकविलिखितपीनोन्नतस्तनि ताम्य इदानीम् ॥’ इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानीं ताम्योद्विग्ना भव । किं कृत्वा । उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलानि उच्चिनोषि त्रोटयसि । कारवेल्ली करवेल्ली । अत्र पूर्वार्धे कारणकथनात्पूर्वता । उक्तयोरनौपम्यं व्यक्तमेव । ननु नात्र साहजिकोऽपह्नवस्तत्कथमपह्नुतिरत आह—अपह्नुत्येति । आरोपेणापह्नवलक्षणयोगादपह्नुतिरित्यर्थः ॥
सैवापूर्वा यथा—
अत्रापि नास्या उपपतिनाधरो व्रणितः किं तर्हि भ्रमरेणेति प्रतीयमानापह्नोतव्यं वस्तु । पूर्वार्धे तु सव्रणमधरमिति कार्यमुपन्यस्य, पश्चिमार्धे सभ्रमरकमलाघ्रायिणीति कारणमुपन्यस्तम् । सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुरपूर्वा च यथोक्तलक्षणयोगाज्जायते ।
कस्स व इत्यादि । ‘कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम् ॥’ इह प्रेयाया अधरं सक्षतं दृष्ट्वा कस्य रोषो न भवति । ततो हेतोर्भ्रमरसहितपद्मस्याघ्राणकारिके, हे वारितवाम्ये दाक्षिण्यवति, संप्रति त्वं सहस्व सहिष्णुर्भव । अत्रोत्तरार्धे कारणोपन्यासादपूर्वता । पूर्ववदाशङ्कासमाधाने इत्याह—यथोक्तेति । इत्यपह्नुत्यलंकारनिरूपणम् ॥
समाध्युक्त्यलंकारनिरूपणम् ॥
समाधिलक्षणमाह—
- ‘वारिता अधरदर्शनपर्यवसायिसभ्रमर पद्माघ्राणं निधुवनं च मा कृथा इति निवारितापि वामा निवारिताचरणा प्रतिकूला’ इत्युदाहरणचन्द्रिका↩