404

सामान्यार्थप्रत्ययेन यथा—

‘सूर्यीयति सुधारश्मिर्मन्मथोऽतिमृतायते ।
मृतस्य कान्ताविरहे स्वर्गोऽपि नरकीयति ॥ ७ ॥’

अत्रोपमानादाचारादिभिः सूर्यादिभ्यः क्यजादय आचारलक्षणक्रियाविशेष उत्पद्यमाना उपमानोपमेययोः सामान्य एवोत्पद्यन्त इति सेयं सामान्यार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥

इवार्थप्रत्ययेन यथा—

‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ८ ॥’

अत्र ‘तेन तुल्यं क्रिया चेद्वतिः ५।१।११५’ इत्यनेन चन्द्रशब्दाच्चन्द्रेण तुल्यं दृश्यत इतीवार्थ एव प्रत्ययो न तु तुल्यक्रियार्थः अन्यथा दृश्यत इति इवार्थ इव तुल्यक्रियाप्रयोगोऽपि न स्यात् । तदप्रयोगेऽपि च गौरिव गवय इत्यादौ वतिः प्रसज्येत । सेयमिवार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥

सूर्यीयतीत्यादि । चन्द्रः सूर्यीयति सूर्य इवाचरति कामोऽतिमृतायतेऽतिमृतवद्भवति । प्रियावियोगे मृतस्य पुनः स्वर्गोऽपि नरकीयति नरक इवाचरति । सूर्यीयतीत्यत्र ‘उपमानादाचारे ३।१।१०’ इति क्यच् । अतिमृतायत इत्यत्राचारार्थे ‘कर्तुः क्यङ् सलोपश्च ३।१।११’ इति क्यङ् । 140नरकीयति इत्यत्र ‘अधिकरणाच्च २६६४ सू. वा.’ इति क्यच् । इहाचार आचरणक्रिया साचोपमानोपमेयसाधारणीति सामान्यप्रत्यया । एक इत्यादि । एक एव भूतात्मा परमात्मा प्रतिदेहमवस्थितः सन् एकधा बहुधा चैकानेकप्रकारेण जलचन्द्रवद्दृश्यते । इह जलचन्द्रवद्दृश्यत इत्यत्रेवार्थे सादृश्ये वतिर्न तु तुल्यः क्रियते तदा दृश्यत इति पदेन वतिना च समर्थतया पौनरुत्त्क्यं स्यात् । न भवतु तुल्यक्रियाप्रयोगः, ततः किमनिष्टमत आह—तदिति । गौरिव गवय इत्यादौ क्रियाया अप्रयोगात्तुल्यक्रियाप्रयोगाभाव इति भावः ॥

  1. प्रकृते सूर्यनरकयोः कर्माधिकरणत्वभावेन चिन्त्यमेतत् । पद्ये क्यङ्प्रयोगस्तु सर्वत्र न्याय्यः