461 गम्यते । सेयमभिधीयमानसादृश्या श्लाघावती तुल्यविशेषणा नाम समासोक्तिः ॥

नालस्येत्यादि । यस्याम्बुजस्य पद्मस्यैवमनेनाकारेण स्थितिरवस्थितिस्तत्राम्बुजे श्रियो लक्ष्म्या वसतिर्वासो युक्त एव । तदाह—नालस्य नालायाः प्रसरो विस्तारः, अथ च न आलस्यस्यालसतायाः प्रसर आधिक्यम् । जलेष्वपि तोयेषु कृतावासस्य, अथ च मूर्खेष्वपि कृतावासस्य । कोषे कुङ्मले रुचिः कान्तिः, अथ च कोषे पात्रेऽर्थसार्थे वा रुचिः प्रीतिः । दण्डे प्रकाण्डे कर्कशता काठिन्यम्, अथ च दण्डे शासने कर्कशता कार्कश्यम् । मुखे उपक्रमे मृदुता कोमलता, अथ च मुखे वदने मृदुता मधुरवाणीकता । मित्रे सूर्ये महान् प्रश्रयः प्रीतिः, अथ च मित्रे सुहृदि महाप्रीतिः । आमूलं मूलादारभ्य गुणस्य तन्तोः संग्रहे ग्रहणे व्यसनिता आसङ्गः, अथ चामूलमादिपुरुषादारभ्य गुणानां शीलादीनां संग्रहे वर्तुलीकरणे व्यसनिता प्रयत्नः । दोषाकरे रजनिकरे द्वेषोऽसूया, अथ च दोषाणामाकरेउत्पत्तिस्थाने जने द्वेषोऽप्रीतिः । ‘नालो नालमथास्त्रियाम्’ इत्यमरः । ‘जलं नीरे च मूर्खे च’ इति विश्वः । ‘कोषोऽस्त्री कुङ्मले पात्रे ह्यर्थसंघातदिव्ययोः ।’ इति मेदिनीकारः । ‘दण्डं प्रकाण्डे शास्तौ च’ इति । ‘मुखमास्ये च प्रारम्भे’ इति । 'मित्रं सुहृदि मित्रोऽर्के’ इति । ‘शिफायां कारणे मूलम्’ इति । ‘गुणस्तन्तौ च शीलादौ’ इति । ‘दोषः स्याद्दूषणे दोषा रात्रौ बाहौ च कीर्तिता ।’ इति । ‘वसतिः स्यादवस्थाने’ इति विश्वः । अत्र पद्मसज्जनयोः प्रसिद्धिसिद्धमुपमानोपमेयत्वमत उभयार्थकविशेषणपदैरश्लेष इव सादृश्यमभिधीयते । प्रशंसापरतया च श्लाघावत्त्वम् ॥

प्रतीयमानाभिधीयमानसादृश्या श्लाघागर्हावती तुल्यातुल्यविशेषणा यथा—

‘उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वेच्छं विलसथ विलीनक्लमभराः ।
इतस्तु क्षाराब्धेर्जरठकमठक्षिप्तपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥ ९७ ॥’

अत्र पूर्वार्घेऽभिधीयमानसादृश्ययोः श्लाघा, पश्चिमार्घे तु प्रतीयमान-