466 न्यपि तदुपमेयानि मुखादीनि ज्ञायन्त इत्युपमानोपमेयविषये संक्षेपोक्तिरियम् । समाध्युक्तिसमासोक्त्योरभेदं मन्वानो भेदकं पृच्छति—क इति । उत्तरम्—यत्रेति । यत्र प्रकरणपरिप्राप्ते विशेष्येऽप्रकरणपरिप्राप्तधर्माध्यासः सा समाध्युक्तिः । [यथा— ] असहमानेव क्लाम्यतीत्यादि । अत्र प्रियतमप्रत्यक्षदूषणाध्यारोपोऽप्राकरणिकः । यत्राप्रस्तुते प्रस्तुतधर्माध्यासः सा समासोक्तिः । यथा—पिबन्मधु यथाकाममिति । अत्र भ्रमरेऽप्रकृते प्रकृतस्य कामिनोऽध्यासः तर्हि धर्म्यध्यासतुल्यतैवास्येत्याह—नन्विति । प्राकरणिकाप्राकरणिकत्वाभ्यामेव विशेषस्तयोरिति धर्म्यध्यासेऽपि न दोष इत्याह—नेति । स त्वं तत्त्वमित्यादौ धर्मिधर्मयोरध्यासः, अनाकाश इत्यादौ धर्मिण एवाध्यास इति भेद इत्यर्थः । स त्वं तत्त्वमित्यादौ मनसा, अनाकाश इत्यादौ च वचनेनाध्यासः ॥ इति समासोक्त्यलंकारनिरूपणम् ॥

उत्प्रेक्षालंकारनिरूपणम् ।

अन्यथावस्थितं वस्तु यस्यामुत्प्रेक्ष्यतेऽन्यथा ।
द्रव्यं गुणः क्रिया चापि तामुत्प्रेक्षां प्रचक्षते ॥ ५० ॥

उत्प्रेक्षालक्षणमाह—अन्यथेति । प्रकारान्तरेणावस्थितं वस्तु यत्र प्रकारान्तरेणोत्प्रेक्ष्यते परिकल्प्यते सोत्प्रेक्षा । असदारोपणमुत्प्रेक्षेति लक्षणम् । किंरूपं वस्त्बित्याकाङ्क्षायामाह—द्रव्यमिति । द्रव्यं पृथिव्यादि, गुणो रूपादिः, क्रिया पाकादिः ॥

तासु द्रव्योत्प्रेक्षा यथा—

‘देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा ।
अन्यार्धार्धमिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ १०४ ॥’

अत्र प्रतिबिम्बरूपेण दर्पणेऽन्यथावस्थितस्यार्धनारीश्वररूपलक्षणस्य द्रव्यस्य यदपरार्धोत्पन्नार्धनारीश्वररूपान्तरेण द्रव्यान्तररूपेणोत्प्रेक्षणं सेयमुत्प्रेक्षा द्रव्योत्प्रेक्षेति भवति ।

देहस्थेत्यादि । यस्य दर्पणे प्रतिमां प्रतिबिम्बं देहस्था गौरी पश्यति अन्यार्धाभ्यामुत्पन्नमर्धनारीश्वरान्तरमिव । अत्रेवशब्द उत्प्रेक्षाव्यञ्जकः । अर्धनारीश्वरान्तररूपं द्रव्यमिह कल्प्यत इत्युत्प्रेक्षा द्रव्यगता ॥