486 अत्र चकाराभ्यां द्रव्ययोरेकक्रियानिवेशनात्समुच्चयः । यदि समुच्चयेन निवेशनं न स्यात्तदा दोषमाह—तेनेति । अन्योन्यनिरपेक्षतया द्विवचनं द्वन्द्वश्च स्यादित्यर्थः ॥

द्विपदाश्रय एवोत्तरपदाश्रितद्योतकेन क्रिययोर्द्रव्यसमुच्चयो यथा—

‘निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा- मियं नः कल्याणी रमयति मनः कम्पयति च १३६’

अत्र रमयति कम्पयति चेति द्वे क्रिये उत्तरपदवर्तिना चकारेणैकस्मिन्मनोलक्षणे द्रव्ये कर्मणि समुच्चयेनैककालमेव निवेशिते; तेनायमन्वाचयो न भवति ॥

निकाममित्यादि । इयं मालती नोऽस्माकं मनो रमयति कम्पयति च । कीदृशी । मदन एव दहनोऽग्निस्तस्मादुद्दाहः प्रकृष्टदाहस्तेन विधुरा विह्वलामवस्थां दशामापन्ना प्राप्ता । अत ए निकाममत्यर्थं क्षीणाङ्गी । सरसो यः कदल्या गर्भो मज्जा तद्वत्सुभगा मनोहरा । अनेन पाण्डुरता तीक्ष्णता चोक्ता । चन्द्रस्य कलाशेषा कलनामात्रावस्थिता मूर्तिरिव नेत्रानन्दजनिका कल्याणी कुशलवती । कदल्या गर्भपदेनातिपाण्डुरत्वकोमलत्वे ध्वनिते । प्रकृतकार्यसंपादकतया रमयति । अतिपीडयारिष्टाशाङ्कित्वान्मनःकम्पनमिहेत्याशयः । अत्र कम्पयति चेत्युत्तरपदस्थेन चकारेणैकत्र मनोलक्षणे द्रव्ये क्रियाद्वयनिवेशनात्समुच्चयः । समुच्चयेन निवेशनाभावे दोषमाह—तेनेति । परस्परनैरपेक्ष्ये उत्तरपदस्थचकारेणान्वाचयापत्तिरित्यर्थः ॥

बहुपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा—

‘अप्राकृतस्तु कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च ।
लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च ॥ १३७ ॥’

अत्र करुणा च कृतज्ञता चेत्यादयो गुणाः प्रत्येकं बहुपदाश्रयत्वेन