491 तदेति । बहुपदाश्रय उत्तरपदाश्रितचकारेणेतरेतरयोगो भवतीत्याह—एवमिति । समाहारमिति । विचिन्त्यमानमिति श्लोके इदमित्येकत्वक्लीबत्वाभ्यां समाहार उक्त इत्यर्थः । द्रव्यादिविषयत्वे इतरेतरयोगसमाहारयोः सत्त्वादन्वाचये विषयान्तरमाह—क्रियेति ॥

एवमपरेऽपीतरेतरयोगेऽपि चयोगा उदाहार्याः । समाहारस्तु चयोगविषयो विचिन्त्यमानमित्यादिनैवोक्तः, अन्वाचयस्तु क्रियाविषय एवोपपद्यते । तत्र चोत्तरपदाश्रय एव चकारो भवति ॥ यथा—

‘गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रूद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ १४४’

अत्र पूर्वं ‘दर्शय’ इत्युर्वीकर्मविषयत्वेन क्रियामुपन्यस्य ‘तोयोत्सर्गस्तनितमुखरो मा च भूः’ इति तत्कर्तर्येव धर्मिण्यकर्मकं क्रियान्तरमन्वाचीयते, सोऽयं भिन्नकालत्वभिन्नविषयत्वाभ्यामन्वाचयः समुच्चयाद्भिन्नो भवति ॥

नन्वेवं यदि समुच्चयेऽपि भिन्नविषये क्रिये तुल्यकालमेव प्रयुज्येते; को दोषः स्यात् । न कश्चित् । किंतु तस्य समुच्चयमुद्रया विषयोऽपहृत इति नोदाह्रियते ॥

गच्छन्तीनामिति । तत्र स्त्रीणां सौदामिन्या विद्युता त्वमुर्वी भूमिं दर्शय । कीदृशीनाम् । नक्तं रात्रौ पतिगृहं गच्छतीनाम् । कस्मिन् सति । सूच्यग्रभेदनीयैरन्धकारै राजमार्गेऽवरुद्धदर्शने सति । सौदामिन्या कीदृश्या । कनकस्य हिरण्यस्य निकषः कषपट्टिकायां कषणरेखा तद्वत्स्निग्धया रम्यया तोयत्यागस्तनितमुखस्त्वं मा भूः मा भव । यतस्ता अनाथा विक्लवा विह्वलाः स्युः । ‘निकषः कषरेखायां पट्टिकायां कषस्य च’ इति मेदिनीकारः । ‘स्तनितं घनगर्जितम्’ इत्यमरः । माभूरित्यत्र ‘न माङ्योगे ६।४।७४’ इत्यङ्निषेधः । अत्राद्यक्रियामुक्त्वा द्वितीयक्रियाया अन्वाचयः । समुच्चयाद्भेदमाह—भिन्नेति । समुच्चये एककालिक