497 विप्रियमनिष्टं कर्तुमिच्छसि । कथं विप्रियता तत्राह—कीदृशस्य । दशवदनमेवात्मना हन्तुं त्वरितस्य, प्रभुणा जिघांसितस्य हि वधेऽपराध इति स एव पुरुषोत्तमस्तं घातयतु । समेतैर्भवदादिभिः साहाय्यमाचर्यतामित्याशयः । यच्छब्दोऽव्ययत्वेनानेकार्थतया संबोधनार्थः । यद्वा जेशब्दः पादपूरणे । दशवदनपदमाकाङ्क्षाक्रमेणावृत्त्या हननद्वयान्वयि । अत्र रावणवधोद्यमो विधिरुक्त्यैव जाम्बवता रुद्धोऽनुकूलतया हेतुमुद्भाव्येति रोधोऽयं विध्याक्षेपशेषः ॥

विधावेव युक्त्यानुकूलः प्रतिकूलश्च यथा—

‘गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी ।
निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥ १५३ ॥’

अत्र यथोक्तमुक्त्वा ‘किं करोमि’ इत्यानुकूल्येनैवाह । अत्र किमः प्रश्नार्थत्वेऽपि युक्त्या निषेधार्थत्वं गम्यते, सोऽयं यौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते ॥ अयमेव चास्या वैयात्योक्तिपक्षे यौक्तः प्रतिकूलविध्याक्षेपो रोधो भवति ॥

गच्छेत्यादि । हे सखि, त्वत्प्रियं गच्छेति वक्तुमिच्छामि । मत्प्रियैषिणी स्त्रीत्वेन स्त्री प्रियत्वान्मा गा इति वाणी मम मुखान्निर्गच्छतीति किं करोमि । ‘मत्प्रियं त्वत्प्रियैषिणी’ इति पाठे तु त्वत्प्रियैषिण्यहं गच्छेति विवक्षामि, मत्प्रियं यथा भवति तथा मा गा इति वाणी निःसरतीति योज्यम् । अत्र किं करोमीत्यस्य युक्त्या प्रकृतोपपत्त्या निषेधार्थतावगमः । यदि वैयात्यात्प्रागल्भ्याद् विपरीतमभिधत्ते तदा मा गच्छेति वक्तुमिच्छामि, गच्छेति वाणी निःसरतीत्यत्र किं करोमीति तदा युक्तिसिद्ध एव रोधोऽयम् ॥

युक्त्या निषेधे प्रतिकूलो यथा—

‘पउरजुआणो गामो महुमासो जोव्वणं पई ठेरो ।
जुण्णसुरा साहीणा असई मा होउ किं मरउ ॥ १८४ ॥’
[प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः ।
जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम् ॥]

अत्र ‘असती मा भवतु’ इति यः प्रतिषेधमाह स ‘प्रचुरयुवा