408

अनेकेवशब्दा यथा—

‘दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ॥ १४ ॥’

अत्र क्रियापदस्य वाक्यार्थद्वयैकतापत्तिहेतोः सकर्मकत्वात्कर्तुः कर्मणश्चोपमानात् पृथगिवशब्दप्रयोग इति सेयमभि धीयमानसादृश्या अनेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥

दिन इति । सा गौरी दिने दिने प्रत्यहं परिवर्धमाना सती लावण्यमयान्कान्तिप्रधानान् विशेषानुत्कर्षान् पुपोष पुष्णाति स्म । कीदृशी । लब्धः प्राप्त उदय उपचयो यया सा । यथा चान्द्री लेखा कला प्राप्तोद्गमा प्रत्यहं वर्धमाना च सती कलान्तराणि अन्यान्या कला धत्ते ज्योत्स्नान्तराणि च धत्ते तथेत्यर्थः । लावण्यं ज्योत्स्नास्थानीयम्, विशेषः कलास्थानीयः । यद्वा कलान्तराणि कीदृशानि । ज्योत्स्ना अन्तरा गर्भे येषु तानि । यद्वा ज्योत्स्नाया अन्तरोऽवकाशो येषु तानि । 'लेखा स्याल्लिपिकलयोः’ इति विश्वः । चन्द्रमस इयं चान्द्रमसी । ‘तस्येदम् ४।३।१२०’ इत्यण् । ‘लावण्यं चारुता मता’ इति शाश्वतः । ‘गर्भावकाशभेदेष्वन्तरं वाच्यलिङ्गवत् ।’ इति मेदिनीकारः । इह पोषणरूपक्रियया वाक्यार्थयोरेकवाक्यता, सा च सकर्मकेति कर्तृकर्मणोः पृथगिवपदप्रयोगादनेकेवोपमेयम् ॥

अनिवादिशब्दा यथा—

‘दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान् ।
अपुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया ॥ १५ ॥’

अत्र पुलोमारिवर्णनीययोर्द्यावाभूम्योरसुराणामवलिप्तपार्थिवानां च तुल्यक्रियासमावेशादिवादिमन्तरेणापि वाक्यार्थानां परस्परमुपमानोपमेयभावोऽवगम्यत इतीयमनिवादिशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः ।

दिव इति । भवान् भूमे रक्षायै पुलोमारिरिन्द्रो दिवः स्वर्गस्य रक्षायै जागर्ति । तेनेन्द्रेणासुरा हन्यन्ते, त्वया नृपा हन्यन्ते । सावलेपाः सगर्वा इति नृपविशेषणम् । पुलोमनामा दैत्यभेदः स चेन्द्रेण हतस्तत्सुता पुलोमजेन्द्राणी च गृहीतेति पुराणम् । इह तुल्या समैकक्रिया जागरणरूपा हननरूपा च तव्द्दयघटित एवोपमानोपमेयभावः ॥