509 सीता पतिता च । न केवलं मूर्च्छिता किंतु पतितापीति चकारार्थः । कीदृशी । हस्तेन शिथिलीकृतो निरोधो यन्त्रणं कपोलस्य अत एव पाणिपीडनत्यागात्पाण्डुरः समुच्छ्वसन् कपोलो यस्याः सा । यद्वा हस्तप्रहतनिरोधेन तत्संपर्कात्पाण्डुरः पीडनत्यागात्समुच्छ्वसन् कपोलो यस्याः सा । प्रेरितेन वामेन पयोधरेण स्तनेन विषमस्तिरश्चीन उन्नतो दक्षिणः स्तनो यस्याः सा । वामस्तनस्य चलनं प्रेरणमत्र रामादचिरभाविदुःखापनयनमिति सूचनम् । यद्वा स्त्रीणां वामः स्तनो निजो दक्षिणः पुरुषस्येति तेनैव पतिता । अत्र कर्तुः कारकतया तद्वाचकपदमेव परिष्कृतम् ॥

संबन्धिपरिकरो यथा—

‘उम्मूलिआण खुलिआ उक्खिप्पन्ताण उज्जुअं ओसरिआ ।
णिज्जन्ताण णिराआ गिरीण मग्गेण पत्थिआ णइसोत्ता ॥१७३॥’
[उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानमृजुकमपसृतानि ।
नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि ॥]

अत्रोद्द्रियमाणगिरिसंबन्धिनोऽप्रयोजका अपि नदीप्रवाहा विशेषणैरुपस्कृता इति संबन्धिपरिकरोऽयम् ॥

उम्मूलिआ इत्यादि । “उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानामृजुकमपसृतानि । नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि ॥” कीदृशानां कीदृशानि च । उन्मूलितानां चालनतः खण्डितानि, उत्क्षिप्यमाणानां ऋजुकमवक्रं यथा स्यादेवमपसृतानि, नीयमानानां निरायतानि वेगवशादवक्राणि च । अत्र नदीप्रवाहस्य संबन्धिनो विशेषणैः परिष्कारः ॥

साध्यपरिकरो यथा—

‘धीरं हरइ विसाओ विणअं जोव्वणमओ अणङ्गो लज्जम् ।
एक्कन्तगहिअवक्खो किं सेसउ जं ठवेइ वअपरिणामो ॥ १७४ ॥’
[धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् ।
एकान्तगृहीतपक्षः किं शिष्यतां यं स्थापयति वयःपरिणामः ॥]

अत्र गतवयसो न धैर्यम्, न विनयो, न लज्जेति साध्यं विषादयौवनमदानङ्गक्रियादृष्टान्तैरुपस्कृतमिति साध्यपरिकरोऽयम् ॥