510

धीरमित्यादि । “धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् । एकान्तगृहीतपक्षः किं शिष्यते यं स्थापयति वयःपरिणामः ॥” इह विषादो धैर्यं हरति, विनयमनौद्धत्यं वशित्वं वा यौवनमदो हरति, अनङ्गो लज्जां हरति । एकान्तेन गृहीतः पक्षो येन सः । अद्भुत इत्यर्थः । यद्वान्तःस्वरूपे एको गृहीतपक्षः सर्वहरस्वरूपो येन स क्यःपरिणामो यत्स्थापयति स्थिरीकरोति तत्किं शिष्यतेऽवशिष्यते, किंतु सर्वमेव हरतीति भावः । अत्र साध्यस्य दृष्टान्तैः परिष्कारः ॥

दृष्टान्तपरिकरो यथा—

‘मज्झट्ठिअधरणिहरं झिज्जइ अ समुद्दमण्डलं उव्वेलम् ।
रइरहवेअविअलिअं पडिअं विअ उक्खडक्खकोडिं चक्कम् १७५’
[मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम् ।
रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥]

अत्र प्रक्षिप्तमन्दरसमुद्रोदाहरणभूतं रविरथचक्रं ‘उत्कटाक्षकोटि’ इति विशेषणेन साम्यसिद्धये परिकरितमिति दृष्टान्तपरिकरोऽयम् ॥

मज्झेत्यादि । “मध्यस्थितधरणिधरं क्षीयते च समुद्रमण्डलमुद्वेलम् । रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥” इह समुद्रमण्डलं क्षीयते च । चः पूर्वापेक्षया समुच्चये । कीदृशम् । मध्यस्थितो धरणिधरो मन्दरगिरिर्यत्र तत् । अत एवोद्वेलमुद्गतजलम् । ‘वेला तत्तीरनीरयोः’ इत्यमरः । सूर्यरथवेगेन स्खलितमंनन्तरं पतितं चक्रमिव । चक्रं कीदृशम् । उत्कटा उद्भटा अक्षकोटिश्चक्राग्रं यत्र तत् । ‘अक्षश्चक्रेऽपि पाशके’ इति विश्वः । अत्र दृष्टान्तस्य साम्यार्थं विशेषणैः परिष्कारः ॥

वस्तुपरिकरो यथा—

‘देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानः प्रवृत्तस्तयोर- न्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥ १७६ ॥’

अत्र चामुण्डाभृङ्गिरिटिपरिष्वङ्गसंघट्टितपरस्परहृदयास्थिजन्मनः