409

वैधर्म्यवती यथा—

‘प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १६ ॥’

अत्र सत्युपमाने सत्युपमेये सत्यपि चेवशब्दे महौजसां मलिम्लुचानां च योऽयं छलापकरणं नाम वस्तुधर्मः स उपमान एव नकारेण नियम्यत इति वैधर्म्यवतीनामेयं वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥

प्रहित इत्यादि । अयं विविध उच्यतासदृशोपमविशेषगुणे(?) इहान्यरूपैः साम्येऽपि वाच्यधर्म उपमान एव निषेधेन नियमित इति वैधर्म्यम् । तद्वतीयमुपमा ।

प्रपञ्चोपमाया अष्टविधत्वमाह—

यत्रोक्तिभङ्ग्या वाक्यार्थे सादृश्यमवगम्यते ।
वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमेष्यते ॥ १९ ॥

यत्रेति । वाक्यार्थे वचनभङ्ग्या यत्र वाक्यार्थयोर्विस्तरेण सादृश्यं ज्ञायते सा प्रपञ्चोपमा ॥

तस्या विभागमाह—

सा तु प्रकृतरूपा स्याद्रूपेण विकृता तथा ।
तयोः प्रकृतरूपा सा विज्ञेया च चतुर्विधा ॥ २० ॥
स्यात्समस्तोपमा तद्वदेकदेशोपमा परा ।
मालोपमा तृतीया स्याच्चतुर्थी रसनोपमा ॥ २१ ॥

सेति । प्रकृतरूपं साहजिकं विकृतं रूपमौपाधिकम् ॥

तासु समस्तोपमा यथा—

‘अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते ।
भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम् ॥ १७ ॥’