522 शब्दतोऽर्थतश्चोपस्कारः कृत इत्युभयकृतोऽयं विरोधश्लेषपरिकरः । एवमलंकारान्तरेष्वपि द्रष्टव्यम् ॥

रइअ इत्यादि । ‘रचितमृणालाभरणो नलिनीदलोत्थगितपीवरस्तनकलशः । वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधनं युवतिजनः ॥’ इह युवतिजनः पतिसंगमेऽपि मदनस्याकल्प उत्कण्ठा तदर्थं प्रसाधनमलंकारं वहति । कीदृशः । कृतमृणालालंकारः । पद्मिनीपत्रैरुत्थगित उत्तम्भितः । आवृत इति यावत् । पीवरकुचघटो येन सः । उत्थगित इति उत्पूर्वात् ‘थगि’ (ष्ठगे) संवरणे’ कर्मणि क्तः । ‘आकल्पकस्तमोमोहग्रस्ताबू’ (न्थिंषू)त्कलिकामुदोः ।’ इति मेदिनीकारः । यद्वा मदनस्य रतिपतेराकल्पकमञ्जनकं प्रसाधनमित्यर्थः । अत्र प्रियसंगमे कामजनकमेव प्रसाधनं युक्तमिह तु तद्वैपरीत्येन विरुद्धार्थता । जलक्रीडायां तु मृणालनलिनीभ्यां युवतेरुपस्कारः शाब्द आर्थश्च व्यक्त एव ॥

एकावलीति या सापि भिन्ना परिकरान्न हि ।
त्रिधा सापि समुद्दिष्टा शब्दार्थोभयभेदतः ॥ ७६ ॥

पूर्वं प्रति यत्रोत्तरस्य वस्तुनो वीप्सया विशेषणत्वेन स्थापनं निषेधो वा सैकावली । इयमपि परिकरादभिन्नैवेत्याह—एकावलीति । एकेनापरस्य परिष्करणमेकावल्यामपि लभ्यते इत्यनयोरभेद इत्यर्थः ॥

तत्र शब्दैकावली यथा—

‘पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् ।
हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी ॥ १९२ ॥’

अत्र ‘हरिमिव, हरिमिव, हरिमिव’ इति शब्दैकावल्या विभिन्नार्थया ‘पयः’ कर्मकारकमुपस्क्रियते; सेयं शब्दैकावली परिकरस्यैव भेदः ॥

पर्वतेत्यादि । इयं पयोष्णी नदीभेदः पयो जलं वहति तत्पश्यत । वाक्यार्थस्यैव वा कर्मता । पयः कीदृशम् । पर्वतस्याद्रेर्भेदनशीलम् । अद्रिं भित्त्वा वहनात् । पवित्रं पुण्यहेतुकम् । नरकस्य निरयस्य जैत्रमत एव बहुमतमनेकसंमतं गहनमगाधम् । हरिरिन्द्रस्तमिव । इन्द्रं कीदृशम् । ‘अद्रिपक्षस्य छेद्यत्वेन पर्वतभेदी पविना वज्रेण त्रायते ‘अन्यत्रापि दृश्यते’ इति त्रः पवित्रः । पश्चात्कर्मधारयः ।