पदावृत्तिर्यथा—
अत्रोग्द्रीवं करोति, उत्कण्ठावन्तं करोतीत्यर्थयोः ‘उत्कण्ठयति’ इति पदमावर्त्यमानं वाक्यद्वयमपि दीपयति; सेयं पदावृत्तिर्दीपकस्य भेदः ॥
उत्कण्ठ्यतीत्यादि । मेघानां पङ्क्तिः, मयूराणां वृन्दं समूहमुत्कण्ठययत्युग्द्रीवयति । अद्येदानीं कामश्च यूनां चित्तमुत्कण्ठयत्युत्सुकयति । अत्रोत्कण्ठयतीति पदमावर्त्यमानं वाक्यद्वयदीपकम् ॥
उभयावृत्तिर्यथा—
अत्र जयेत्यर्थः शब्दश्चावर्त्यमानः सर्ववाक्यानि दीपयति; सेयमुभयावृत्तिर्दीपकस्य भेदः ॥
जयेत्यादि । हे देव महादेव, भुवनस्य जगतो भावन जनक, जय । हे भगवन्नखिलेषु जनेषु वरप्रद, निगमस्य201 वेदस्य निधे आश्रय, जय । रम्यचन्द्रचूड, जय । मदननाशक, जय प्रथमगुरो, जय । ‘निगमो नगरे वेदे’ इति मेदिनीकारः । अत्र जयशब्दस्तदर्थश्चावर्त्यमानः सर्ववाक्यदीपकः ॥
आवली यथा—
अत्र पूर्वार्धे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्थया
- ‘निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे’ इति मेदिनी↩