423 विषं निर्मोक इति भुजगपक्षे येऽवयवास्तेषामाहार्यत्वादिदमाहार्यावयवं नाम रूपकमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि कुम्भकर्णसंबन्धपरिघट्टितगलितविशिष्टानामवयवानामेव दशाननभुजगभीषणतरीकरणक्रियायां प्राधान्यमवगम्यते ॥

तो इत्यादि । ‘ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः । गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः ॥’ ततोऽनन्तरं दशानन एव भुजगः सर्पः सोऽतिभयानको जातः । कीदृशः । कुम्भकर्णप्रतिवचनमेव दण्डस्तेन परिघट्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः । गलितश्च्युतोंशुकं वस्रमेव निर्मोकः कञ्चुको यस्य सः । ‘समौ कञ्चुकनिर्मोकौ’ इत्यमरः । इह प्रतिवचनादीनामवयवत्वाभावादाहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम् ॥

उभयावयवं यथा—

‘यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेतिग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृद्भृत्यादयः पल्लवाः ।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता लूयताम् ॥ ३९ ॥’

अत्र बीजं मूलमङ्कुरः पुष्पं फलमिति लतापक्षे सहजाः, तृष्णापक्षे पुनरहंकृत्यादय आहार्यावयवा इति तदिदं सहजाहार्याणामवयवानां परस्परमुपमानोपमेयभावरूपणेनोभयावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि चाहंकारममताध्रौव्यस्मरणसुतादिदारपरिग्रहपराभवदुर्गतीनामवयवानामेव बीजादिरूपेण रूपितानां भगवदाराधनकुठारेण तृष्णालता लूयतामिति प्रार्थनक्रियया समावेशेन प्राधान्यमवगम्यते ॥

यस्या इत्यादि । सा मम तृष्णैव लता हे कृष्ण, त्वत्पादपूजापरशुना लूयतां छिद्यताम्, त्वच्चरणार्हणैव परशुः कुठारः । यस्यास्तृष्णालताया अहंकृतिरहंकार एव बीजमादिकारणम्, गुरुतरो ममेतिग्रहो ममत्वनिश्चयो मूलम्, नित्यमिदमिति