425 घानां वेलाशुक्तिमुक्ताफलप्रकराणां च प्रतीयमानाभिधीयमानसादृश्यानां शब्दप्राधान्यतोऽर्थप्राधान्यतश्च रूपकं कृतमित्याधारवन्नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः ॥

आधारवदिति । सोहइ इत्यादि । इह गगनमेव समुद्रस्तत्र तारा एव सुक्तास्तासां प्रकरः समूहः शोभते । कीदृशः । विशेषेणातिशयेन शुद्धकिरणः । रजन्येव वेला तीरभूमिस्तत्र लग्नः संबद्धः । स्फुटविघटिता व्यक्तीभूय विदीर्णा मेघा एव शुक्तिसंपुटास्तैर्विमुक्तश्च । इह सादृश्ये रजन्यादीनां प्रतीयमानता वेलादीनामभिधीयमानता, शुद्धरूपकता उपमाद्यसंभेदात् । गगनस्याधारतयेदमाधारवद्रूपकम् ॥

निराधारं यथा—

‘वणराइकेसहत्था कुसुमाउहसुरहिसंचरन्तधअवडा ।
ससिअरमुहुत्तमेहा तमपडिहत्था विणेत्ति धूमुप्पीडा ॥ ४२ ॥’
[वनराजिकेशहस्ताः कुसुमायुधसुरभिसंचरच्द्व्वजपटाः ।
शशिकरमुहूर्तमेघास्तमःप्रतिहस्ता विज्ञायन्ते धूमोत्पीडाः ॥]

अत्र धूमोत्पीडानां वनराजिकेशहस्तत्वेन कुसुमायुधसुरभिसंचरच्द्व्वजपटत्वेन शशिकरमुहूर्तमेघत्वेन च तमःप्रतिहस्तत्वेन च रूपितानां निराधाराणामेव शब्दप्राधान्यमर्थप्राधान्यं चावधार्यत इति निराधारं नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः ॥

वणेत्यादि । इह धूमसमूहा एतादृशा विज्ञायन्ते । कीदृशाः । वनराज्या वनपङ्क्तेः केशहस्ताः केशकलापा एव, ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ।’ इत्यमरः । कुसुमायुधस्य कामस्य सुगन्धि चलद्ध्वजपटा एव चन्द्रकिरणानां मुहूर्तमेघा एव तमसामन्धकाराणां प्रतिहस्ताः प्रतिनिधयः । ‘प्रतिहस्तः प्रतिनिधौ’ इति विश्वः । इह धूमोत्पीडस्य वनराजिकेशकलापादेराधारत्वानुपपत्तेर्निराधाररूपकमिदम् ॥

केवलं यथा—

‘वेल्लितभ्रु गलद्धर्मजलमालोहितेक्षणम् ।
विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥ ४३ ॥’