429 तत्करे यासां ताः । यद्वा धुता मेधा बुद्धिर्येन तादृशं मधु करे यासां ताः, यद्वा धुता मेधा यस्मादेवंविधो मधुकरो विदग्धो यासां ताः । घनेन दृढेन समयेन शपथेन समदेन पुंसा वा आकृष्टा आहता अवनता वशीकृताः । उपभुक्ता इति यावत् । पश्चाद्विमुक्तास्त्यक्ताः, यद्वा विमुक्ता विगतमुक्ताहाराः पश्चात्कर्मधारयः । ‘समयः शपथे काले’ इति विश्वः । नखस्य पातः क्षतं तदेव प्रसाधः प्रसाधनं यासां ताः143 ॥

श्लेषोपहितं यथा—

‘पीणपओहरलग्गं दिसाणं पवसन्तजलअसमअविइण्णम् ।
सोहग्गपढमइण्हं पम्माअइ सरसणहवअं इन्दधणुम् ॥ ४८ ॥’
[पीनपयोधरलग्नं दिशां प्रवसज्जलदसमयवितीर्णम् ।
सौभाग्यप्रथमचिह्नं प्रम्लायति सरसनखपदभिन्द्रधनुः ॥]

अत्र सरसनखपदाकारस्येन्द्रधनुष उत्पन्नसादृश्यादभेदोपचारेण रूपेण योऽयं सरसे नभसि पदमस्येति व्युत्पत्त्या श्लिष्टरूपेण तद्विशेषणप्रकारो यश्च शोभायाः प्रथममग्र्यं चिह्नं सौभाग्यस्य च प्रथमं चिह्नं पीनपयोधरे मेघे स्तने वा लग्नमित्यादिविशेषणविशेष्यभावस्तेनेदं श्लेषेणोपधीयत इति श्लेषोपहितं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥

पीणेत्यादि । इहेन्द्रधनुः प्रसाधयति...... श्लिष्यति वा । कीदृशम् । पीने पयोधरे मेघे लग्नम् । प्रवसता गच्छता जलदसमयेन वर्षाकालेन दिशां वितीर्णं दत्तम् । सौभा144ग्यस्य श्रेष्ठं प्रथममाद्यं चिह्नम् । सरसे स्निग्धे नभसि गगने पदं स्थानं यस्य तत् । पक्षे सरसं नखपदं क्रमेण प्रमीयते (प्रम्लायति) । कीदृशम् । दिशां प्रौढाङ्गनानां सुन्दरीणां वा पीने मांसले पयोधरे स्तने लग्नम् । प्रवसता जलदसमयेन नायकेन वितीर्णं दत्तम् । जलान् मूर्खान् द्यति खण्डयति जलद ईदृशः समय आचारो यस्य सः । सौभाग्यस्य प्रथमचिह्नमिन्द्रधनुराकारं च । ‘समयः स्यात्काल आचारे’ इति शाश्वतः । प्रवासगमने स्मरणार्थं विदग्धेन नखक्षतं देयम् । तदुक्तं मद्रसिकसर्वस्वे—'प्रवासगमने देयाः स्नेहसंस्कारका नखाः ।

  1. पक्षे ‘नखपातप्रसाधाः’ इति
  2. ‘शोभाग्रप्रथमचिह्नं’ इति वा छाया