434

अत्र दीपशिखादिद्रव्ययोगकृतं साम्यं सामान्यविशेषरूपौ संचारिणी दीपशिखेति च राजमार्गाट्ट इति च दृष्टान्तौ पूर्वमेवोपन्यस्तौ । सेयं विशेषतो द्रव्ययोगनिमित्तसाम्या पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः ॥

संचारिणीत्यादि । सा पतिंवरा इन्दुमती यं यं भूमिपालं व्यतीयाय तत्याज स स भूमिपालो विवर्णभावं विवर्णत्वं प्रपेदे लेमे । यथा रात्रौ संचरिणी दीपशिखा यं यं राजमार्गाट्टं व्यतिक्रामति स स राजमार्गाट्टो वैवर्ण्यं प्राप्नोति तथेत्यर्थः । व्यतीयायेति व्यतिपूर्वात् ‘इण् गतौ’ इति धातोर्लिटि रूपम् । अट्टो अटारीति प्रसिद्धः । ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः । इह संचरणत्वसामान्ययोगात्सामान्यरूपता, राजमार्गाट्ट इति विशेषरूपता ॥

द्र्व्ययोगनिमित्तसाम्यैव सामान्यत उत्तरा यथा—

‘उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखा वर्तिः प्रदीपशिखया यथा ॥ ५५ ॥’

अत्र द्रव्ययोगकृतं साम्यं सामान्यरूपश्च प्रदीपः पश्चात्प्रदीपशिखावर्तिर्दृष्टान्तः । सेयं यथोक्तरूपोत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः ॥

उज्ज्वलेत्यादि । त्वया त्यक्ता स्निग्धा स्नेहवती सखी न राजते इति प्रियायाः सखीं प्रति पत्युर्वचनम् । त्वया कीदृश्या । उज्ज्वलो निर्मल आलोको दर्शनं यस्यास्तया । स्निग्धा कीदृशी । मलीमसं म्लानं मुखं यस्याः सा । यथा प्रदीपशिखया त्यक्ता वर्तिर्न शोभते तथेत्यर्थः । प्रदीपशिखया कीदृश्या । उज्ज्वल आलोक उद्द्योतो यस्यास्तया । वर्तिः कीदृशी । स्निग्धा स्नेहवती, स्नेहस्तैलम् । मलानमुखी च । 'मलीमसं तु मलिनम्’ इत्यमरः । इह नायिकाशिखयोर्द्रव्ययोर्योगः । दृष्टान्तस्य सामान्यरूपता पश्चादुपादीयमानता च व्यक्तैव ॥

सैव क्रियागुणयोगनिमित्तसाम्या विशेषतो यथा—

‘तो ताण हअच्छाअं णिच्चललोअणसिहं पउत्थपआवम् ।
आलेक्खपईवाणं व णिअअं पइइचडुलत्तणं पि विअलिअम् ५६’
[ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् ।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥]