439 बाहुलकात्पाक्षिक इडगमः । यद्वा भरितः संजातभरः । तारकादित्वादितच् । ‘प्रतिबिम्बं प्रतिमा’ इत्यमरः । अत्र नेत्रयोरुपमेययोर्मदताम्रत्वं वैकृत उत्कर्षः स्फुट एव ॥

सैवोपमेयापकर्षापत्त्या यथा—

‘मृगं मृगाङ्क सकलं सदाङ्के बिभार्ति तस्यास्तु मुखं कदाचित् ।
कपोलदेशे मृगनाभिपत्र/?/मियान्सखे तस्य ततोऽपकर्षः ॥ ६३ ॥’

अत्र मृगाङ्क सकलं मृगं सदाङ्के बिभार्ति, तन्मुखं च कदाचिन्मृगनाभिमात्रजपत्रमेवेत्युपमेयस्य वाचनिक्यपकर्षापत्तिः प्रतीयते । सेयमुपमेयापकर्षापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

मृगमित्यादि । हे सखे, तस्य मुखस्य ततश्चन्द्रादियानेतावान्प्रकर्षः । तमेवाह । मृगाङ्कश्चन्द्रोऽङ्के क्रोडे सदा सकलं मृगं बिभर्ति । तस्याः पुनर्मुखं (कर्तृ), कपोलदेशे मृगनाभेः कस्तूरिकायाः पत्त्रं पत्त्रावलीं कदाचिद्वहति । इह मुखस्योपमेयस्य वाचनिकी वचनतात्पर्यपर्यवसन्नापकर्षापत्तिः । कलङ्किना सममनयोरल्प एवोत्कर्ष इति हि वचनमपसर्षबोधकमेव । विकृतता च कस्तूरीपत्त्राधानात् ॥

सैवोपमेयस्य साम्यापत्त्योपमानोत्कर्षेण च यथा—

‘न मर्त्यलोकस्त्रिदिवात्प्रतीयते म्रियेत नाग्रे यदि वल्लभो जनः ।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति ॥ ६४ ॥’

अत्रोपमेयस्य यथोक्तधर्मयोगे सत्युपमानेन पूर्वार्धे साम्यमुत्तरार्धे तु किंचिदुत्कर्षो भवति । सेयं यथोक्ता । विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

न मर्त्येत्यादि । विवृतोऽयमभावालंकारे । इहोपमेयस्य मर्त्यलोकस्य यथोक्तधर्मस्याग्रे वल्लभमरणाभावरूपस्य योगे सत्युपमानेन त्रिदिवेन तौल्यमग्रे त्रिदिवप्रयोजननिवृत्त्युक्तेरुत्कर्ष एव ज्ञायते । वल्लभस्याग्रे मरणाभावाशंसनया विकृतता ॥

प्रतिवस्तूक्तेर्भेदप्रकारानाह—

प्रतिवस्तूक्तिरप्यस्मिन्नृज्वी वक्रा च कथ्यते ।
दृष्टान्तोक्तेश्च सा छायां प्रपञ्चोक्तेश्च गाहते ॥ ४० ॥