442

प्रपञ्चोक्तिच्छायया विधावृज्वी यथा—

‘तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् ।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकाम् उदञ्चय मुखं मनाग्भवतु च द्विचन्द्रं नभः ॥ ६९ ॥’

अत्र प्रथमचतुर्थपादयोरुपमानोपमेयसाम्यं वैकृतम्, द्वितीयतृतीयपादयोरुपमानापकर्षः प्रकृत इति । सेयं प्रपञ्चोक्तिच्छायया विधावृज्वी नाम प्रतिवस्तूक्तिः साम्यभेदः ॥

तरङ्गयेत्यादि । हे अङ्गने रूपवति, दृशो नेत्राणि तरङ्गय चञ्चलानि कुरु । ततो नीलमिन्दीवरं पद्मं पततु भङ्गवद्भवतु । रदच्छदं दशनाच्छादकमधरं स्फुटीकुरु व्यक्तीकुरु । ततो विद्रुमः प्रवालवृक्षः श्वेततां व्रजतु यातु । क्षणं मुहूर्तमात्रं वपुः शरीरमपावृणु निरावरण कुरु । ततः काञ्चनं कनकं (कर्तृ) कालिकां श्यामिकां स्पृशतु । मनाक् अल्पं यथा स्यादेवं मुखमुदञ्चयोत्तोलय च । ततो नभ आकाशं द्विचन्द्रं चन्द्रद्वयान्वितं भवतु । तरङ्गयेति तरङ्गशब्दात् ‘तत्करोति-’ इति णिचि लोटि रूपम् । ‘ओष्ठाधरौ तु रदनच्छदौ’ इत्यमरः । ‘विद्रुमो ना प्रवालेऽपि’ इति मेदिनीकारः । ‘कालिका श्यामिका चण्ड्याः’ (?) इति शाश्वतः । द्वौ चन्द्रौ यत्र तद्विचन्द्रम् । अत्र विकृततया प्रकृततया च प्रपञ्चोक्तिच्छाया वैकृतमसाहजिकम् । प्रकृतः सहजः । विधिता तु व्यक्तैव ॥

सैव विधौ वक्रा यथा—

‘एक्कोण्णमिअभुअभङ्गे विमलकवोले वअणम्मि तुइ मिअच्छि तिरिञ्छणअणे ।
एहु ससिबिम्बउ कलङ्गगारउ पण्डरउ खित्तउ उप्परेण भमाइअ णिमञ्छणखप्परउ ॥ ७० ॥’
[एकोन्नामितभ्रूभङ्गे विमलकपोले वदने तवः मृगाक्षि तिर्यङ्नयने ।
एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तम् उपरि भ्रामयित्वा निर्मञ्छनकर्परम् ॥]