444

सैव निषेधे वक्रा यथा—

‘तद्वक्रं यदि मुद्रिता शशिकथा 147तच्चेत्स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्गिरो148 धिङ्मधु ।
धिक् कंदर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे यत्सत्यं 149पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥ ७२ ॥’

अत्रोपमानापकर्षो वक्रोक्त्या च निषेधः । शेषं पूर्ववत् । ते इमे द्वे अपि मालोपमाच्छायया प्रपञ्चोक्तिपूर्वे, पुनः उपमाच्छाययेति मन्तव्यम् ॥

तद्वक्रमित्यादि । तस्यास्तत्प्रसिद्धं मुखं यद्यस्ति तदा शशिकथा मुद्रिता लुप्ता । तन्मुखस्यैव चन्द्रत्वात् । एवमन्यत्रापि । सर्वत्र तच्छब्दः प्रसिद्धौ । चेद्यदि तत्स्मितमीषद्धासस्तदा का सुधा किमभृतम् । यदि तन्नेत्रं तदा हारितं नीलनलिनैः । यदि ता गिरो वाण्यस्तदा धिङ्मधु । यदि ते भ्रुवौ च तदा कंदर्पधनुर्धिक् । यद्वा किं बहु ब्रूमहे वदामो यत्सत्यं निश्चितं वेधसो धातुः सृष्टिक्रमः पुनरुक्तवस्तुषु द्विरुक्तपदार्थेषु विमुख एव । तथा च तद्वक्रादौ सति तच्चन्द्रादिसर्गो न स्यादिति भावः । ‘ऊर्ध्वे दृग्भ्यां भ्रुवौ स्रियाम्’ इत्यमरः । अत्र कथामुद्रणादिना चन्द्रादेरेव निषेध इति वक्रोक्तिः । शेषं प्रपञ्चोक्तिच्छायत्वादिकं पूर्ववत् ऋजुप्रतिवस्तूक्तिवत् । अनयोः प्रपञ्चोक्तिच्छाया कथमित्यत आह—मालेति । यथा मालोपमायां विस्तरेणोपमितिस्तथात्र प्रपञ्चोक्तिरपि विस्तरेणेत्यर्थः ॥ उत्पाद्येति । यथोत्पाद्योपमायामुपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमुक्तं तथा पूर्वयोरपीति प्रपञ्चोक्तिच्छायत्वमित्यर्थः ॥ इति सामान्यालंकारनिरूपणम् ॥

संशयोक्त्यलंकारनिरूपणम् ।

संशयलक्षणमाह—

अर्थयोरतिसादृश्याद्यत्र दोलायते मनः ।
तमेकानेकविषयं कवयः संशयं विदुः ॥ ४१ ॥
तत्रैकविषयोऽनेको यस्मित्रेकत्र शङ्क्यते ।
यस्मिन्नेकमनेकत्र सोऽनेकविषयः स्मृतः ॥ ४२ ॥
  1. ‘हा हेम सा चेद्दयुतिः’ इति पाठः
  2. ‘स्तच्चेत्स्मितं का सुधा’ इति पाठः
  3. ‘वस्तुविमुखः सर्ग॰’ इति पाठः