051 न्विभजते—त्रिविधाश्चेति । शब्दः शरीरस्थानीयोऽधिष्ठेयतया प्रथमप्रतिसंधेयतया च बाह्यः । ततस्तदाश्रिता गुणा अपि बाह्याः । अर्थस्त्वात्मतुल्योऽधिष्ठायकतया पश्चाद्ग्रह्यतया चान्तरस्तेन तदाश्रिता गुणा अप्यान्तराः । अथेदानीं येषामग्रे दोषत्वं ततो गुणभावः । केचिद्विशेषमासाद्यन्ते वैशेषिकाः । पूर्वं दोषा अपि विशेषयोगेन गुणीभवन्तीत्यभिप्रायात् । ‘माधुर्यौजःप्रसादास्त्रय एव गुणाः’ इति ध्वनिकारस्य मतं निरस्यति—चतुर्विंशतिरिति । परस्परसंकीर्णत्वादुपाधीनामिति भावः । न चैतदस्माकं मनीषामात्रेण कल्पनमित्याह—आख्याता इति । निष्ठाप्रत्ययेनेदंप्रथमता द्योत्यते । उक्तविशेषादेव शब्दगुणानां पूर्वभाव इत्याह—तेष्विति । अभिधानं द्विविधं विभागतः, लक्षणतश्चेत्याह—नामलक्षणयोगत इति । पदघटनव्यवस्थितौ गुणान्तरगवेषणम् । अतः प्रथमं श्लेषलक्षणमाह—तत्रेति । श्लिष्टानि घटितानि पदानि यत्र तस्य भावस्तत्ता । न च घटनामात्रस्य गुणभाव इति शङ्क्यम् । सुपदं शोभना घटनेत्यर्थः । शोभनत्वं घटनाया मसृणत्वमेकताप्रतिभानसामर्थ्यं यद्ब्रह्मं सूत्रमुरःस्थल इति । बीजं चात्र श्रुत्यनुप्रासवत्त्वमलक्षितसंधिता च । तथा हि प्रकृतोदाहरणे उभावित्युकारभकारावोष्ठ्यौ । यदि ‘व्य’ इत्याद्यन्तौ वकारयकारौ तालव्यौ । न चायं वर्णानुप्रासः । ईषत्स्पृष्टत्वादिभेदात् । मध्ये दकारवकारौ दन्त्योष्ठ्यौ । ‘म्नि’ इत्यत्र मकारो भकारेण, नकारो दकारेण समानश्रुतिक इत्यादि बोद्धव्यम् । तथा ‘पृथक्प्रवाहौ’ इति ककारस्य पवर्गगमनैकता प्रतिभासते, ‘प्रवाहावाकाश’ इत्यौकारस्यावादेशेन वर्णान्तरनिष्पत्त्या । एवं ‘पयसः पतेताम्’ इत्यादावुन्नेयम् । पृथगिति पार्श्वद्वये । तेन वक्षःस्थलदक्षिणवामभागयोर्लम्बमानो द्विसरो हार इति लभ्यते । अस्य वक्ष इति । अत्रास्येति पदेन नान्यस्य हार इत्थमनुपमो न चान्यस्य वक्षःस्थलमाकाशवदुन्नतविस्तीर्णमिति भगवतः सकलजगद्विलक्षणत्वध्वनिरित्याराध्याः ॥

प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥ ६६ ॥

यथा—

‘गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ ७६ ॥’