055 ये चमत्कारास्पदमिति ध्वनितम् । तथाभूतानामथ संवेदने पूर्व एवाभिप्रायः । ताडितेत्याकारेण च्छेदोन्मेषः पयोधरेत्यादावोकारः । धकारतकारौ ॥

अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् ॥ ६८ ॥

यथा—

‘मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ ७९ ॥’

अत्र सर्वकोमलत्वेऽसति श्लेषविपर्ययदोषशैथिल्याभावाद्बाहुल्याद्वर्णानामनैष्ठुर्यात्सौकुमार्यम् ॥

अनिष्ठुरेति । समस्त एव गुम्फे द्वित्राणि त्रिचतुराणि प्रस्फुटान्यक्षराणि निवेश्यन्ते स किलान्तरान्तरोपदंशन्यायेन चित्रास्वादपर्यवसायी सुकुमार इति प्राचां मतम् । अत एव समताया भेदः । भृद्वीकापाकः पुनरन्यादृशो वक्ष्यते । अनिष्ठुरे सुकुमारव्यवहारो लोके दृष्टः । मण्डलीकृत्येत्यादौ प्रथमपादे मण्डेति, कृत्येति, बर्हेति अत्र संयोगत्रयम् । द्वितीयपादे ण्ठेति, र्मेति च संयोगद्वयमुपन्यस्य गीतिदीर्घस्वरनिवेशो रूपान्तरमादाय विशेषशोभाहेतुः । तृतीयपादे केति न इति प्रनृत्यन्तीति च दीर्घविसर्गसंयोगा इति व्यन्तरम् । चतुर्थपादे दीर्घस्वरा एवान्तरान्तरेति सैव वासना । ननु अनिष्ठुराक्षरमयत्वं सुकुमारतेति वक्तव्ये प्रायशब्दः केन प्रयोजनेनेत्यत आह—अत्रेति । न चायमर्थगुणः स हि वाक्यार्थे धर्मिणि निरूप्यते । अयं तु पदसमुदाय इति युक्तं शब्दगुणेषु परिंगणनम् । संमितत्वमन्यथा भविष्यति ॥

यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ।

यथा—

‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ८० ॥’

अत्र वाक्यपरिपूर्णतयार्थसमपकत्वादर्थव्यक्तिः ॥

वागर्थाविवेति । अत्र वन्दे इत्युत्तमपुरुषवचनेनैवाहमिति प्राप्तम् ‘अस्मद्युत्तमः’ इत्यत्र स्थानिनीत्यभिधानात् । किमिति कर्मापेक्षायां पार्वतीपरमेश्वराविति । तावपि