059 द्योत्यते । शत्रूणामिति बहुवचनेन यदैकावस्कन्दमुद्दिश्यायं प्रचलति तदा सर्वेषामियं दशा भवतीति प्रत्याय्यते । अत एवासमासः सजीवः । वियोगवेदनादूनमानसानामुद्गतोऽपि बाष्पस्रावादन्तरेव विच्छिद्यत इति लवपदेन ध्वन्यते । पुनः समागमाशंसनशीलानाममङ्गलभिया बाष्पस्तम्भो लवपदरहस्यमित्येके मन्यन्ते । अन्यस्य बाष्पस्य निर्गमनानुपपत्तौ पुटयोरार्द्रभावमात्रम् । शुभ्र इति यत्र चन्द्रातपेन पल्लविताः कान्तयः क्षणदाविलासविहारेषु कामपि रसमात्रामुत्कर्षयन्तीति व्यनक्ति । तदनन्तरमेव व्याप्यामित्याह—नवाम्भोरुहीति । पूर्ववत्संभोगोद्गारः । सशाद्वल इत्यनेन रतिकुतूहलोत्कण्ठितानामद्रिशृङ्गारोहणश्रान्तानां तदेवास्तरणमिति प्रकटीक्रियते । विवलितग्रीवतया च पभ्द्यां पलायनमेव न तु शरीरवलनमपीति । शृङ्गाराद्भयानक एव रसः स्थायीति ध्वनितम् । तदेतत्सर्वमभिप्रेत्याह—अत्रेति ॥

अरीतिमत्करणोक्तमभिप्रेत्यौजोलक्षणमाह—

ओजः समासभूयस्त्वम्न

यथा—

‘जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु- स्रवदमृतनिवृत्तप्रेमभावैः कपोलैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥ ८४ ॥’

अत्र भुजगरज्जुग्रन्थीत्यादिना समासभूयस्त्वादोजः ॥

ओज इति । वैपुल्यवृत्तैर्बहुशब्दस्येयसुनि भूय इति रूपम् । तथा च समासस्य भूयस्त्वं वैपुल्यविकटत्वमिति यावत् । न चैवं गौडीया रीतिरेवेयमिति वाच्यम् । क्वचित्समासभूयस्तामात्रस्यैवौचितीवशेन विशेषशोभावहत्वात् । यथा—‘वाद्यन्ति दिग्गजगण्डकषणैर्भग्नस्रस्ता’ इति । न च समासाभावो नोचितः । नह्येक एव समासो रूपभेदमादाय गुणत्वमनलंकारत्वं च प्रयोजयतीति किमनुपपन्नम् । एवं प्रकृतोदाहरणेऽपि । तथा हि—परिणताः परिणामं गताः । बहूनां कल्पानां ब्रह्माण इति चतुर्णां पदार्थानां पिण्डत्वे चत्वारिपदानि समबहुव्रीहिरूढिभिर्भुजगरज्जुभिरिति ग्रन्थिदृढताबोधनाय रूपकम् । अत एव निवीत्युपसर्गस्तात्पर्यवान् । सद्यो विरचितनुतीत्यनेन कपालानामसाधारणो व्यापारः । बन्धो हि ब्राह्मरूपस्ताल्वादिकमन्तरेण न निष्पद्यते । जीवनानन्तरमेव त्रासावेशात्स्तुतिरूप एव व्रह्म-