063 मन्वयः केनापि प्रकारेण घटित इति पूर्ववद्वोद्धव्यः । तदेतदाह—अत्रेत्यादिपदमुभाभ्यां संबध्यते । तेन जीवितवर्गो जनिवर्गश्चाभिमतः । मतिः सकृदेवावृत्त इति नोक्तः भूयसा हि लोके व्यपदेशो दृश्यत इति ॥

समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम् ॥ ७२ ॥

यथा—

‘प्रतीच्छत्याशोर्की किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी- मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥ ८८ ॥’

अत्र प्रतीच्छति—अवतरति—अनुवदति—इत्यादिचेतनक्रियाधर्माणामचेतनेष्वधरादिषूपचारेणाध्यारोपणं समाघिः ॥

समाधिरिति । सम्यगाधानमारोपणं समाघिः । सम्यक्त्वं च कक्रतालोकातिगत्वं न तदधिकभावः । तदिदं लक्षणे स्फुटम् । ‘कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च’ इत्यादौ व्यभिचाराच्च । तेन संबन्धिता न धर्मविशेषणमत्राभिमता । अलंकाराद्भेदश्चतुर्थे वक्ष्यते—प्रतीच्छतीति । प्रत्येषणं दीयमानस्य ग्रहणं चेतनधर्मः स विरहवत्या अचेतनेऽधरे समारोपितः । किसलयकान्तिमितो मन्दीभूततामवगमयति । देयस्य दातुरपसरणेऽन्यत्र संक्रान्तौ च प्रत्येषणनिर्वाहाच्च । तथा चाशोककिसलयेभ्योऽपि कोमलपाटलत्वमधरस्येति माधुर्यपोषः । तदभिमुखप्रवर्तनमवतरणमपि चेतनधर्मः सोऽचेतने कपोले समारोपितः किंचित्पाण्डुतामवद्योतयति । न च प्रत्येषणवत्सामस्त्येन ग्रहणमपि तु संमुखीभावमात्रमित्याशयात् । तथा च पूर्ववन्माधुर्यं पुष्णाति, अनुवादोऽपि चेतनधर्म एव सोऽचेतनायां दृष्टावारोपितः पर्युषितकमलच्छायामखण्डामेवात्र बोधयति । परप्रकर्षाभिमुखेऽपि विप्रलम्भे कदाचित्संकल्पोपस्थितप्राणनाथायां दृष्टौ कान्ती भवतीति प्रायःपदेन सूचितम् । स्पर्शस्य माधुर्यविषयेऽसंभवात्स्पृशतीत्यप्यारोपः । प्रथमविग्रहशोभाविर्भावमभिव्यनक्ति—चेतनक्रियेति । प्रकृतापेक्षया क्रियाक्रियावतोः सादृश्याभावान्नेयं गौणी किं तूपचरितैव शुद्धेत्याह—उपचारेणेति । एतेन रूपकादिभ्यो भेदः समर्थितः ॥

अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।