067
समासेनाभिधानं यत्स संक्षेप उदाहृतः ।

यथा—

‘स मारुतिसमानीतमहौषधिहृतव्यथः ।
लङ्कास्त्रीणां पुनश्चके विलापाचार्यकं शरैः ॥ ९२ ॥’

अत्र कथाविस्तरप्रतिपाद्यस्यार्थस्य प्रकृतसंग्रामरसविच्छेदाशङ्कया श्लोकार्धमात्रेणोक्तत्वात्संक्षेपः ॥

समासेनेति । अस्ति कश्चिद्विशेषो यत्र वाक्यसंकोचः प्रकृतौचितीवशेन चमत्कारकारणम् । तथा हि—स मारुतीत्यादौ मारुतिना यदोषधेरानयनम्, यच्च तया व्यथाहरणम्, तदुभयमपीतिहासकथाविस्तरेण प्रतिपादितमिह तु श्लोकार्धमात्रेणेति शब्ददत्तभर एवायं गुणो यद्यपि भवति, तथापि यावद्विवक्षितोपादानकाव्यरूपेणार्थसंकोचो वक्तव्यः । स च तथाविधवक्रोक्तिसंक्रोच एव भवतीत्युक्तावेव संकोच उल्लिखति । कथमयं संकोचः प्राप्तोचितभाव इत्याह—प्रकृतेति । अत एवोपक्षिप्तमपीतिहासार्थमपहाय त्वराविष्टेन कविना प्रकृतमुत्तरार्ध एवासंहितं पूर्वोत्तरार्धसामञ्जस्याय संक्षिप्यैव प्रकृतमप्युक्तम् ॥

यावदर्थपदत्वं च संमितत्वमुदाहृतम् ॥ ७४ ॥

यथा—

‘केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि ।
वाचि वस्तुनि चाप्यन्ये नान्ये वाचि न वस्तुनि ॥ ९३ ॥’

अत्रार्थस्य पदानां च तुलाविधृतवत्तुल्यत्वेन संमितत्वम् ॥

यावदिति । यावन्ति वर्णानि विना प्रकृतमनुसर्तुमेव न शक्यन्ते तावन्मात्रमयत्वं वाक्यस्य संमितत्वम् । अतः संक्षेपाद्भेदः । कवेः शक्तिव्युत्पत्तिभ्यामसत्यपि पल्लवे कदाचिद्धटनालावण्यमुन्मिषत्येव । यथा पूर्वमुदाहृतम्—‘का त्वं शुभे कस्य परिग्रहो वा’ इत्यादि । अर्थव्यक्तिसंकरशङ्काप्यत एव निराकृता । 'अस्त्युत्तरस्यां दिशि देवतात्मा’ इति केचिदुदाहरन्ति तदयुक्तम् । अनेन नामपदयोः पल्लवरूपत्वात्संमितत्वाभावे कथमाभासत्वं भवतीति विस्भृतव्यमिचारिगुणप्रकरणस्य भाषितमुपेक्षणीयम् । केचिदिति सर्वनाम्न एवाभिमतकविविशेषे पर्य-