074
यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते ।

यथा—

‘अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्द- न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ १०० ॥’

अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकहरणे तमोविदारणे चानुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यते ॥

यत्तु प्राकट्यमिति । समभिव्याहृतपदार्थसंसर्गात्मनि वाक्यार्थे दर्पणतल इवानुपात्तस्यापि विवक्षितस्य वस्तुनः प्रतिभासोऽर्थप्रसादः । न चेदमनुमानं समानसंवित्संवेद्यत्वात् । तदाह—अनुक्तोऽपि सूर्यलक्षणोऽर्यः प्रकटमुपलक्ष्यत इति ॥

अवैषम्यं क्रमवतां समत्वमिति कीर्तितम् ॥ ७९ ॥

यथा—

‘अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयो- र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ १०१ ॥’

अत्र मधुश्रियो मौग्ध्यत्यागयौवनारम्भकृतानां विशेषणानामवैषम्यात्समता ॥

अवैषम्यमिति । येन रूपेण लोकेऽर्थः प्रतीतस्तदनतिक्रमेण तस्योक्तिः समता । वक्रता चात्र विशेषणमूहनीयम् । अन्यथा मुक्त्वा व्रजतीत्यतः को विशेषः स्यात् । अग्रे इति । मुग्ध इति कोषात्प्रथममुद्भिद्यमाना कुरबककलिका कान्तानखवत्पाटला भवतीति मधुश्रियो बाल्यम् । ततः प्रौढिमापद्यमानासु कलिकासु श्यामो वन्तभागः स्फुटितत्वाद्द्विधावतिष्ठत इति यौवनम् । एवं बालाशोकमित्यादौ क्रमेण बाल्ययौवनचिह्नोपदर्शनमवसेयम् ॥