084

इत्यादौ द्विप्रभृतीनामर्थानामविभज्य विनिवेशनमिष्यते । तस्माच्छब्दश्चार्थश्च शब्दार्थौ । तयोस्तुल्यत्वं यावदुद्देशशब्दार्थम् । अर्थस्य विभज्य तुलाधृतवत्प्रतिनिवेशः संमितत्वमिति । अर्थमुद्दिश्य शब्दतुलनं काव्यभावबीजं शब्दगुणः, शब्दमुद्दिश्य त्वर्थतुलनमर्थगुणश्च । तथाहि—परमेश्वरस्य मूर्ध्नि बालेन्दुः, पार्वतीस्तने नखाङ्क इति पृथक्शब्देनोद्दिश्य तदुपमायोग्यतया कायैकतायां दलनं हृत्पद्मनवमद्वारयोर्ध्यानेन युगपत्संनिधानमिति सम्यग्विभज्य तुलितस्येव प्रणवस्य प्रतिनिर्देश इति ॥ तदिदमाह—अत्रेति । यथावदिति । येन प्रकारेण संगच्छत इति तदनतिक्रमेणेति ॥

साभिप्रायोक्तिविन्यासो भाविकत्वं निगद्यते ॥ ८६ ॥

यथा—

‘दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ११८ ॥’

अत्र तमालमालावलयितसरित्तीरकृतसंकेतायाः कुलटायाः स्वतनौ भाविनां परपुरुषनखक्षतानां नलग्रन्थ्यालेखव्याजगोपनेन साभिप्रायभणनं भाविकम् ॥

साभिप्राय इति । अभिप्रायविशेषप्रतिबद्धस्य वाक्यार्थस्योक्तिविन्यास उक्त्या विशेषो न्यासः । शब्दगुणे पदानां भाव्यर्थनिष्पादिता इह त्वर्थस्येति विशेषः । तथा हि—दृष्टिमित्यादौ तनुमालिखन्तु जरठच्छेदा नलग्रन्थय इत्युक्त्या विन्यस्यमान एव भाविनलग्रन्थ्यालेख्यरूपार्थः कुलटास्वरूपानुसंधानदत्तान्तः करणस्य प्रतिपत्तुरनन्तरमेव स्वैंरविहारचिह्नगोपनमभिव्यनक्ति ॥

गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु ।

यथा—

‘शुभे कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता रात्रौ व्यपगतदृगन्यच्च बधिरः ।