उक्तिरिति । स्वीयोऽभीष्टोऽर्थः स्वार्थः । तस्य साक्षात्प्रतिपादनमनुचितमिति अर्थान्तरभङ्गिभिः प्रतिपादनमर्थगुणः । भव्यो मनोहरः । सुगममन्यत् । नायकनायिकासंगमस्येति । नायकस्य नायिकया तस्याश्च नायकेनेति परस्परोत्कण्ठाप्रकर्षो विवक्षितः । तेनैकशेषो न भवति ॥