090

यथा—

23खातयः कनि काले ते स्फातयः स्फार्हवल्गवः ।
चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम धारिणः ॥ १२८ ॥’

अत्र 24खातय इत्यादीनां घर्घरिकादौ धृङश्चानवस्थाने न रूढिः । गूढार्थे तु प्रहेलिकादौ तन्न दुष्यतीति तेषां दोषगुणत्वम् ॥

यत्त्विति । रूढिच्युतत्वेन द्वितीयां संज्ञां प्रयोजयति । आकीर्णामन्त्रणाद्युपयोगिनी प्रहेलिका । तथा च—तद्विद्यसंभाषायां विदग्धैरुपन्यासैः स्वार्थाप्रत्यायकत्वलक्षणबीजाभावान्न दोषः, गुणस्तु भवति । अनुकरणादिकमादिपदेन गृह्यते । खातयो घर्घरिकाः । कनीति कन्यासंबोधनम् । कालश्चरणः कर्णाटदेशभाषानुसारात् । स्फातयः स्फीताः । स्फार्हो मनोहरः । वल्गुर्ध्वनिः । चन्द्र आह्लादकः । वायवः प्राणाः । धारिणोऽनवस्थिताः । तदयं वाक्यार्थः—हे कनि कन्ये, तवाह्लादकचरणबद्धा यथोक्तविशेषणा घर्घरिकाः साक्षाद्भवन्ति श्रोत्रेण प्रत्यक्षीक्रियन्ते । अत्र प्रस्तावे मम प्राणा उद्दीपनप्रकर्षमसहिष्णवो धारिणोऽनवस्थिता इति । व्रणप्ररोहस्थानादौ खात्यादिशब्दानां रूढिर्न तु घर्घरिकादावित्याह—अत्रेति । नामधातुविवक्षया द्विधा व्याख्यातम् ॥

तुच्छवाच्यमपुष्टार्थमिति यत्प्राक्प्रकाशितम् ।
तस्य च्छन्दोऽनुरोधादौ गुणत्वमवधार्यते ॥ ९५ ॥

यथा—

‘द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम् ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ १२९ ॥’

अत्र द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति हिरण्यपूर्वं कशिपुमित्यस्य तुच्छार्थत्वेऽपि च्छन्दोऽनुरोधाद्गुणत्वम् ॥

तुच्छेति । शब्दपल्लवनस्य प्रकृतरसाननुगुणत्वेन दोषत्वप्रसङ्गे क्वचिदनन्यगतिकतया कवेरुत्पाद्यते । तथा हि—भिन्नसर्गान्तैरित्यादिना सर्गाणामौत्सर्गिकैकवृत्तनिर्वाहौचित्ये स यथोक्तसंक्षिप्तशब्दाप्रवेशात्पररूपेण तदर्थत्वस्य विवक्षितत्वाच्च

  1. ‘खादयः’ ख
  2. ‘खादयः’ ख