100

एवमशस्तादीनामपि गुणत्वम् ।

यथा—

‘भद्रे मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये मुहूर्तं29 मृत्यो रत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि30 ।
चामुण्डे मुण्डमालामुपनय 31विनयस्वायतां भैरवीर्ष्या- मेवं देवे भवानीं वदति परिजनव्याहृतिस्त्रायतां वः ॥ १४४ ॥’

अत्र मारीकृत्यादीनामशस्तार्थानामपि पदानां समस्तमङ्गलायतनस्य भगवतो विश्वेश्वरस्य संबन्धेनोक्तत्वाद्गुणत्वम् ॥

पुनरपरेण प्रकारेण संव्यानं भवतीत्यप्रशस्ते स्फोरयति । परमेश्वरस्य मङ्गलायतनत्वं तत्संबन्धिमात्रस्यैव मङ्गलीभवननियमेन शास्त्रेतिहासादौ प्रसिद्धत्वात् । तदुक्तम्—‘तथापि स्मर्तॄणां वरद परमं मङ्गलमसि’ इति । अयं च प्रकारोऽप्रशस्तार्थ एव भवति । मार्यादयो मातृविशेषाः । आरात्रिकं नीराजनदीपव्यासङ्गपात्रम् । परिजनपदं संबन्धं पुष्णाति ॥

द्वितीयं गोपनप्रकारमशस्तार्थान्तरं व्यञ्जयति—

यथा वा—

‘सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ १४५ ॥’

अत्र धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे निपतन्तीत्यस्यामङ्गलार्थान्तरत्वेऽपि ‘हंसानहं धार्तराष्ट्रानिति व्यपदिशामि’ इति वक्ष्यमाण32वाक्यगुप्तत्वाद्गुणत्वम् ॥

यथा वेति । पक्षः पतत्रं परिकरश्च । आशा दिक् प्रत्याशा च । मदः क्षीबता दर्पश्च । निपात आगमनं शस्त्रादिहतानां मेदिनीसंगतिश्च । रङ्गमङ्गलान्तः स्वस्त्ययनप्रवृत्तस्य सूत्रधारस्य मङ्गलार्थाधिकारवस्तुप्रस्तावनं तावद्बुद्धिपूर्वकमत्र न संभवति हंसानहमित्यादिना तात्पर्यस्य नियमितत्वात् । स्वशक्त्या तु पदार्थान्तरमा-

  1. ‘मुहुर्ते’ ख
  2. ‘रात्रे’ ख
  3. ‘विनयस्त्रायतां’ ख
  4. ‘वाक्यान्तरगुप्तत्वात्’ ख