003 शायां कवेरपि सामाजिकत्वाङ्गीकारात् । सहृदयश्लाघया वा प्रीतिस्तदृष्टं प्रयोजनम् । कीर्तिरदृष्टद्वारा स्वर्गफलेत्यदृष्टम् । यदाह—‘कीर्ति स्वर्गफलामाहुः’ इति । अङ्गिनः काव्यस्य प्रयोजनान्वाख्यानेनाङ्गभूतस्यास्य प्रयोजनसंबन्ध उक्तः। यद्यपि काव्यशब्दो दोषाभावादिविशिष्टावेव शब्दार्थौ ब्रूते, तथापि लक्षणया शब्दार्थमात्रे प्रयुक्तः । लक्षणाप्रयोजनं चाभिधेयानामुद्देशः । त्रिधा हि सास्त्रशरीरम्—‘उद्देशः, लक्षणम्, परीक्षा चे'ति । उदाहरणव्याख्याग्रन्थः सर्वत्र परीक्षापर इत्यस्मद्गुरवः । प्रयोजनाभिसंबन्धपरादेवोद्देशो लभ्यत इति न विरोधः । अत एव दोषाद्युद्देशक्रमेण परिच्छेदाः । निर्दोषं दोषात्यन्ताभाववत्, अवयवैकदेशवर्तिना श्वित्रेणेव कामिनीशरीरस्य वर्णमात्रगतेनापि दोषेण काव्यवैरस्यनियमात् । अत एवामङ्गलप्रायाणामपि दोषाणां प्रथममुपादानम् । अयमेव हि प्राचः कवेर्व्यापारो यद्दोषहानं नाम । गुणवदिति । भूम्रि प्रशंसायां वा मतुप् । अलंकृतमित्येव वक्तव्येऽलंकारैरिति प्रसिद्धालंकारपरिग्रहार्थम् । तथालंकारैरित्येव वाच्ये प्रसिद्धानामपि वक्ष्यमाणानामेवोपादानार्थमलंकृतपदम् । रसान्वितं रसेन नित्यसंबद्धम् । ‘नास्त्येव तत्काव्यं यत्र परम्परयापि विभाबादिपर्यवसानं न भवति’ इति काश्मीरिकाः । एतेन काव्यलक्षणमपि कटाक्षितम् । ईदृशं काव्यं तत्कुर्वन् । कविरिति कवेरपि लक्षणमिति ॥

अथोद्देशक्रमेण दोषाणां सामान्यलक्षणं विभागं चाह—

दोषाः पदानां वाक्यानां वाक्यार्थानां च षोडश ।
हेयाः काव्ये कवीन्द्रैर्ये तानेवादौ प्रचक्ष्महे ॥ ३ ॥

दोषाः पदानामिति । हेया इत्यनेन सामान्यलक्षणम् । ये हेयास्ते दोषा इत्यभिप्रायात् । अभिमतप्रतीतिव्यवधायकतया विघ्नभूतः शश्वत्काव्ये हेयतामासादयति स एव दोषः । अयमेवार्थः ‘मुख्यार्थहतिर्दोषः-’ इति पदेनान्येषामभिमतः । स च पद-वाक्य-वाक्यार्थविषयतया पूर्वं त्रिविधः । पदपूर्वकत्वाद्वाक्यस्य तत्पूर्वकत्वाद्वाक्यार्थस्य युक्तः क्रमः । वर्णमात्रदोषो नोल्लेखीत्युपेक्षितवान् । अवान्तरविभागे तु क्रियमाणे प्रत्येकं षोडशभिरुपाधिभिः संकुलमित्याह—षोडशेति । काव्यप्रकाशकारादिभिरुक्तानामधिकानामिहान्तर्भावः । अनन्तर्भावे तु दोषत्वमेव नास्तीत्यभिप्रायः, न तु देशीयरागन्यायेन स्वमतप्रकाशनम् । प्रतीतिव्यवधायकानां सर्वदा तद्रूपत्वात् । उक्तमेवाभिसंधानम्—तानेवादाविति ॥