119

यदाह—

‘सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् ।
यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते ॥
अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति ।
यत्किंचित्कान्तिसाम्यात्तु शशिनैवोपमीयते ॥’

यत्रोपमानेति । उपमेयेनोपमेयविशेषणेन संमितास्तुल्यसंख्याः । इन्द्रायुधमिन्द्रधनुरेकमुपमाने उपमेये पीतं वासः शार्ङ्गमब्जः शङ्ख इति त्रीणि विशेषणानि तदिहाधिकविशेषणविषय इति जिज्ञासासमकालमेवाप्रसिद्धेन्दुबिम्बयोरुपमानयोर्मेघानुसंधानात् स्खलनाभिमुखी प्रतीतिरवलक्ष्यते । ध्वननव्यापारोन्मेषाच्च गुणत्वलाभः । तदुक्तम्—‘मुख्या महाकविगिरामलंकृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥’ इति । न चैवं स्तनितादीनामिति कथं प्रतीतिरिति वाच्यम् । प्रतीयमानस्यापि प्रतिपत्तिवैरूप्यसमाधावानौपयिकस्थानाकाङ्क्षितत्वेनादरादित्याह—सर्वं सर्वेणेति । यथोपपत्तिपर्यन्तो यावतोपमानविशेषणत्वेन प्रकृतमुपमेयविशेषणप्रतिबिम्बता नीयते तदतिक्रमेणैकप्रतीत्यनुरोधे कल्पितेनाप्युपमेयविशेषणेनेत्यर्थः । अन्यथा चन्द्रमुखादीनां नोपमा पर्यवस्येतेत्याह—अखण्डेति ॥

अमुमेव प्रकारमधिकोपमेये योजयन्नाह—

क्रमेणानेन कृतिभिरेष्टव्यमधिकोपमम् ।
विशेषस्तूपमेयाङ्गमनुमानात्प्रतीयते ॥१२२ ॥

यथा—

‘स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥ १६५ ॥’

अत्र शशिनो ग्रहणादधिकोपमत्वेऽप्युपमानत्वेनाविवक्षितत्वाद्गुणत्वम् । यदि वोपमाने धर्मोद्धाटनानुमानात् ‘शङ्खचक्रगदाधरो विष्णुः’ इति प्रसिद्धेः शार्ङ्गमनुमेयम् ॥

क्रमेणेति । यत्रोपमानेऽधिकविशेषणसंक्षेपस्तद्वाक्यमधिकोपममित्युच्यते तत्र झटिति प्रतिबिम्बभूतोपमेयविशेषणप्रतिसंधानेन दोषः । तदेव तु कथमत उक्तम्—