तद्देश्यमिति । अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यं लोकमात्रप्रयुक्तं पद-014 मनादेयं भवति। तद्दिविधम्—अभागं भागवच्चेति । आद्यं देश्यम्, द्वितीयं ग्राम्यमिति विभागः । व्युत्पन्नानामन्यादृशी च्छाया देश्यानां च न तादृशीति देश्यवेद्यपदसमभिव्याहारे प्रायेण छायावैरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिकं दोषबीजम् । तल्लमल्पसरः, लडहं मनोहरम्, मडहं कृशम्, वोसट्टं विकसितम्, कन्दोट्टं नीलोत्पलम्, मोट्टायितं विलासः ॥